Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः ।
केचित्तु-धातोः प्रकाशोऽर्थः, पञ्चम्या अधिकरणं, तथा च हिमवति प्रथमप्रकाश इत्यर्थः । भाष्ये तु बुद्धिपरिकल्पितमपायमाश्रित्य भीत्रा- . र्थानामित्यादिसुत्राणि प्रत्याख्यातानि । तन्मते सर्वत्रावधिः पञ्चम्यर्थः ।
यत्तु दण्डाद्धटः इत्यत्र हेताविति सूत्रेण पञ्चमीति भवानन्दैरुक्तं तन्न । हेतावितिसूत्रेण पञ्चम्यविधानात् । प्रकृते पञ्चमी तु जनिकर्तुः प्रकृतिरिति सूत्रेण विभाषेति योगविभागेन वा । विशिष्यार्थानुक्तौ संबन्धः सर्वत्रार्थः । __ अध्याहारादिना गम्यमानल्यबन्तार्थस्य कर्मणि अधिकरणे वा पञ्चमीविधायकेन 'ल्यब्लोपे कर्मण्यधिकरणे च' इत्यनेन प्रासादात्प्रेक्षते आसनात्प्रेक्षते इत्यादौ पञ्चमी । प्रासादमारुह्यासने उपविश्येत्यर्थः । एवं स्थिते ल्यपि कर्माधिकरणं वा पञ्चम्यर्थः ।
यतश्चाध्वकालनिर्माणं तत्र पञ्चमी तद्युक्तादध्वनः प्रथमासप्तम्यौ, कालात्सप्तमी च वक्तव्या' इत्यनुशासनेन वनाद्दामो योजने योजनं वा, कार्तिक्या आग्रहायणी मासे इत्यादौ विभक्तिः । अत्रावधित्वं पञ्चम्यर्थः । वनावधिकयोजनपरिमितदेशवृत्तिामः इति बोधः । प्रथमार्थोऽप्यधि. करणमेवेति केचित् ।
अन्ये तु अव्यवहितोत्तरत्वं पञ्चम्यर्थः । स्वाव्यवहितोत्तरवृत्तित्वं प्रथमासप्तम्योरर्थः । एवं च वनाव्यवहितोत्तरयोजनाव्यवहितोत्तरदेशवृत्तिाम इति बोधमाहुः । वस्तुतस्तु वनसंबन्धियोजनसंबन्धी ग्राम इति बोधः। एवं च षष्ठथपवादभूतेयम् । अन्ये तु योजनमित्यस्य प्रथमान्तत्वे गतं चेदिति शेषः, ततः प्रभृति गते मासे आग्रहायणीति च बोधमाहुः ।
अन्यार्थक आरादितर ऋते दिक्शब्द अञ्चूत्तरपद आच् आहि इत्येतेषां योगे पञ्चमीविधायकेन 'अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते' इत्यनुशासनेनान्यो भिन्नः इतरो विलक्षणः अर्थान्तरं वेत्यादौ पञ्चमी । अस्याः षष्ठयपवादत्वात्प्रतियोगित्वं पञ्चम्यर्थः । कृष्णप्रतियोगिताकभेदवानिति बोधः । नन्वत्रान्यार्थग्रहणे इतरग्रहणं व्यर्थमिति चेन्न । विशेषणीभूतभेदार्थकयोगेऽपि विधानार्थं तदावश्यकत्वात्। अन्यथान्यार्थस्य भेदवदर्थकत्वेन भेदार्थकयोगे न स्यात् । तथा च घटा दः वैलक्षण्यमर्थान्तरत्वं वा पटस्येति प्रयोगो न स्यात् । इतरग्रहणं प्रपञ्चार्थ
Loading... Page Navigation 1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122