Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 93
________________ ११ ग्रन्थः ] लघुविभक्त्यर्थनिर्णयः । साक्षात्तदेकदेशग्रहणात् । यद्वा विशेषस्येतरव्यावृत्तधर्मवत्त्वं निर्धारणं, तथा च क्षत्रियान्यनरत्वावछिन्नवृत्तिभेदप्रतियोगिशूरतमाभिन्नः क्षत्रिय इति बोधः। निर्धारणप्रतियोगितावच्छेदकमनुष्यत्वगोत्वादेर्निर्धारणविषयीभूते राक्षसादावसत्वरूपेऽत्यन्तभेदे पञ्चमीविधायकेन पञ्चमीविभक्ते' इत्यनुशासनेन माथुराः पाटलिपुत्रकेभ्यः आन्यतरा इत्यत्र पञ्चमी, पाटलिपुत्रकावधिकनिर्धारणविषया माथुरा आध्यतरा इति बोधः । अन्ये तु पाटलिपुत्रधनाधिकधनवन्तो माथुराः । एवं वैश्यशौर्याधिकशौर्यवन्तः क्षत्रिया इत्यादि बोधमाहुः । प्रतिपर्यनूनां प्रयोगाभावे साधुनिपुणयोयोंगेऽर्चायां गम्यमानायां संबन्धे सप्तमीविधायकात् ' साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः' इत्यनुशासनान्मातरि साधुनिपुणो वेत्यत्र सप्तमी । मातृसंबन्धिपूजनविपयककौशल्यवानिति बोधः । प्रकर्षेण सित: शुक्ल इति यौगिकातिरिक्तरूढ्यासक्तवाचकप्रसितोत्सुकाभ्यां योगे विषयसप्तम्यर्थे पाक्षिकतृतीयाविधायकात् 'प्रसितोत्सु- . काभ्यां तृतीया च' इत्यनुशासनात् प्रसित उत्सको वा हरिणा हरौ वेत्यादौ तृतीयासप्तम्यौ । हरिविषयकसत्क्रियावानिति बोधः। नक्षत्रवाचिप्रकृतेः 'नक्षत्रेण युक्तः कालः' इत्यण्प्रत्यये तस्य 'लुबविशेषे' इति लुपि कृते नक्षत्रयुक्तकालप्रतिपादकादधिकरणसप्तमीतृतीयाविधायकात् 'नक्षत्रे च लुपि' इत्यनुशासनात् 'मूलेनावायेद्देवीं श्रवणेन विसर्जयेत्' इत्यादावधिकरणे पाक्षिकतृतीयासप्तम्यौ । मूलनक्षत्रकालाधिकरणकं देवीकर्मकमावाहनमिति बोधः । शक्तिद्वयमध्ये यौ कालाध्वानौ ताभ्यामधिकरणे पाक्षिकसप्तमीपञ्चमीविधायकात् 'सप्तमीपञ्चम्यौ कारकमध्ये' इत्यनुशासनादद्य भुक्त्वाऽयं व्यहे व्यहाद्वा भोक्ता इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्येदित्यादौ सप्तमीपञ्चम्यौ । स्वानन्तरदेशकालवृत्तित्वं विभक्त्यर्थः । तेनैतदिवसाधिकरणकभोजनोत्तरकालिकमेतदिवसानन्तरव्यहानन्तरवर्तियद्भोजनं तदाश्रय इत्यर्थः । एतद्देशाधिकरणकस्थित्याश्रयकर्तृकमेतद्देशानन्तरक्रोशानन्तरस्थितलक्ष्यकं व्यधनमिति बोधः । अधिकशब्दयोगेऽस्मान्मन्द इत्यादाविव 'पञ्चमी विभक्ते ' इत्यनेन

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122