Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१२ ग्रन्थः ] शाब्दबोधप्रकाशिका । शक्यः, आश्रयत्वेन विवक्षितः शब्दः शक्त इत्युच्यते । शब्दार्थयोस्तादाम्यादेव श्लोकमशृणोदथै शृणोति अर्थ वदतीत्यादिव्यवहारः, ओमित्येकाक्षरं ब्रह्म, रामेति व्यक्षरं नाम मानभङ्गः पिनाकिनः,. सुरथो नाम राजाऽभूत् , शब्दानुशासनं नाम शास्त्रं, वृद्धिरादैच् , इत्यादौ सामानाधिकरण्येन प्रयोगश्चोपपद्यते । न च शब्दार्थयोस्तादात्म्यस्वीकारे मधुशब्दोच्चारणे मुखे माधुर्यरसास्वादापत्तिर्वह्निशब्दोच्चारणे च मुखे दाहापत्तिरिति वाच्यम् । अभेदस्याध्यस्तत्वाद्वस्तुतो भेदस्य सत्त्वेन तादृशापत्तिविरहादित्याहुः। .
नैयायिकास्त्वयं शब्दोऽस्मिन्नर्थे शक्त इत्यत्र स्वजन्यबोधविषयत्वप्रकारकेच्छार्थकशकधातूत्तरविहितक्तप्रत्ययस्य निरूपकतासंबन्धेनाश्रयत्वरूपकर्तृत्वविशिष्टबोधकत्वादोपः । शब्दार्थयोरितरेतराध्यासमङ्गीकृत्य तन्मूलकस्य तत्तदा भिन्नत्वेन व्यवहार्यतारूपस्य तत्तच्छब्दनिष्ठतत्तदर्थतादात्म्यस्य तत्तच्छब्दशक्तिग्राहकत्वकल्पनं तु सति सध्वनि कदवावा लम्वनमिव न रोचते सद्भयः। श्रावणबोधस्येव शाब्दबोधस्यापि शृणोत्यर्थ. त्वान्नार्थ शृणोतीति प्रयोगानुपपत्तिः । एवं च आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति श्रुतावप्यात्मनः श्रोतव्यतोपपद्यते । अर्थ वदतीत्यस्य तु शब्देन प्रतिपादयतीत्यर्थः । ओमित्येकाक्षरं ब्रह्म इत्यत्र उपस्थितस्वरूपशक्तस्येतिशब्दस्य स्वरूपप्रतिपाद्ये लक्षणा । तदेकदेशे च स्वरूपे ओमित्यस्याभेदेनान्वयः । तेनैव संबन्धेन एकाक्षरपदार्थस्यापि तत्रान्वय इति । तथा च एकाक्षराभिन्नस्वरूपप्रतिपाद्यं ब्रह्मेत्यन्वयबोधः । न चापशुः पशुरद्रव्यं घट इत्यादिप्रयोगविरहेण पदार्थैकदेशे पदार्थान्तरस्यान्वयस्याव्युत्पन्नत्वादत्र पदार्थैकदेशे स्वरूपे ओमित्यस्य एकाक्षरपदार्थस्य चान्वयो न संभवतीति वाच्यम् । घटादन्य इत्यादौ अन्यपदार्थैकदेशे भेदे पञ्चम्यर्थप्रतियोगितायाः अन्वयदर्शनात् व्युत्पत्तिवैचित्र्येण पदार्थैकदेशेऽपि पदार्थान्तरान्वयस्य कचिदभ्युपगमात् । अत एव गभीरायां नयां घोष इत्यत्र नदीपदलक्ष्यार्थस्य नदीतीरस्यैकदेशे नद्यां गभीरापदार्थस्यान्वय इति । यदि च तत्र नदीपदस्य गभीरनदीतीरे लक्षणा, गभीरापदं तु तात्पर्यग्राहकमित्युच्यते, तदात्रापि इतिशब्दस्य ॐस्वरूपैकाक्षरप्रतिपाद्ये लक्षणा ऑपदमेकाक्षरपदं च तात्पर्यग्राहकमिति । एवमुत्तरत्रापि बोध्यम् ।
Loading... Page Navigation 1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122