Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१२ ग्रन्थः ] शाब्दबोधप्रकाशिका । कालनिष्ठं वर्तमानकालवृत्त्येककर्तृकं भोजनमिति वाक्यार्थबोधमुख्यविशेष्यभोजनाश्रयस्य न पचधात्वर्थकर्तृत्वम् । तादृशवाक्यार्थबोधस्य पचधातुजन्यत्वमप्यस्तीति तदापत्तिः । आश्रयत्वं च चैत्रो गच्छतीत्यादौ चैत्रादिपदस्य शरीरपरत्वे समवायसंबन्धेनात्मपरत्वे तु स्वजनककृत्याश्रयत्वरूपपरंपरासंबन्धेन स्वसमवायिशरीरावच्छिन्नत्वरूपपरंपरासंबन्धेन वा। रथो गच्छतीत्यादौ समवायसंबन्धेन चैत्रो जानातीच्छतीत्यादौ चैत्रादिपदस्य शरीरपरत्वेऽवच्छेदकतासंबन्धेनात्मपरत्वे तु समवायसंबन्धेन । शब्दादर्थः प्रकाशते, देवदत्ताय रोचते मोदकः, इत्यादौ तु विषयतासंबन्धेन । कन्यां विवहतीत्यादौ तु विवाहस्य ग्रहणरूपत्वे चैत्रादिपदस्य च शरीरपरत्वेऽवच्छेदकतासंबन्धेनात्मपरत्वे तु समवायसंवन्धेन । विवाहस्य दानरूपत्वे तु उद्देश्यतासंबन्धेन । अत्र घटोऽस्तीत्यादौ तु स्वरूपसंवन्धेन । घटो नश्यति, ज्ञानं नश्यतीत्यादौ तु प्रतियोगितासंवन्धेन बोध्यम् । एवमन्यत्रापि यथानुभवमवगन्तव्यम् ।
क्रियाश्रयस्य कर्तृत्वेऽपि क्रियाया धातुलभ्यत्वादाश्रयमानं तिर्थ इति बोध्यम् । अमन्यलभ्यस्यैव शब्दार्थत्वात् ।
नैयायिकास्तु-आख्यातस्य कृतिर्वाच्या । गच्छति गमनं करोति, पचति पाकं करोतीति, करोतिना विवरणात् । किं करोतीति कृतिप्रश्ने गच्छति पचतीत्यागुत्तरस्याख्यातस्य कृत्यर्थकत्वं विनानुपपत्तेश्च नतु कर्ता, अनन्तकृतेः शक्यतावच्छेदकत्वे गौरवात्। गमनानुकूलकृत्याश्रयश्चैत्र इत्याद्यन्वयबोधस्त्वाख्यातार्थस्य कृतेराश्रयतासंबन्धेन प्रथमान्तपदार्थऽन्वयात्। अत्र च-'कथं पुनर्ज्ञायतेऽयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इति ? अन्वयव्यतिरेकाभ्याम् । अन्वयाव्यतिरेकाच्च । कोऽसावन्वयो व्यतिरेको वा। इह 'पचति' इत्युक्ते कश्चिच्छब्दः श्रूयते-पच्शब्दश्चकारान्तः, अतिशब्दश्च प्रत्ययः । अर्थोऽपि कश्चिद्गम्यते--विक्लित्तिः कर्तृत्वमेकत्वं च । पठतीत्युक्ते कश्चिच्छब्दो हीयते कश्चिदुपजायते कश्चिदन्वयी। पच्छब्दो हीयते, पठशब्द उपजायते, अतिशब्दोऽन्वयी । अर्थोऽपि कश्चिद्धीयते, कश्चिदुपजायते, कश्चिदन्वयी । विक्लित्तिहीयते, पठिक्रियोपजायते, कर्तृत्वं चैकत्वं चान्वयी । तेन मन्यामहे यः शब्दो हीयते तस्यासावों योऽर्थो हीयते, यः शब्द उपजायते तस्यासावर्थों योऽर्थ उपजायत, य: शब्दोऽन्वयी तस्यासावों योऽर्थोऽन्वयी' इति भूवादिभाष्यमप्यनुकूलम्।
Loading... Page Navigation 1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122