Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः । तत्र च संबन्धत्वेन संबन्धः प्रकारत्वेन भासते प्रत्ययोपात्तत्वात् । यत्र तु षष्ठी नास्ति नीलोत्पलादौ तत्र संसर्गतयेति विवेकः । न च संबन्धस्य प्रकारत्वेन भानाभ्युपगमे षष्ठी शेष इति सूत्रस्थभाष्यविरोधः । तत्र हि राज्ञः पुरुष इत्यत्र राजा विशेषणं पुरुषो विशेष्य इत्युक्तम् । षष्ठयर्थसंबन्धस्य प्रकारत्वेन भाने तु संबन्धे विशेषणतया विशेष्यतया वा ब्रूयादिति वाच्यम् । राजनिष्ठप्रकारतानिरूपितपुरुषनिष्ठविशेषतासंबन्धस्य प्रकारतया भानाभ्युपगमेऽपि संबन्धे तयोर्विशेषणविशेष्यभावासंभवात् । स्वत्वस्वामित्वादिविशेषरूपेण भानं तु सांसर्गिकविषयतयैव अत एव भाष्यकारेण राजा विशेषणं पुरुषो विशेष्य इति स्पष्टीकृतमिति ग्रन्थगौरवभयादुपरम्यते । प्रकृतमनुसराम:
हेतुशब्दप्रयोगे हेतुत्वेन हेतौ द्योत्ये 'षष्ठी हेतुप्रयोगे' इत्यनुशासनेनान्नस्य हेतोर्वसतीत्यत्र षष्ठी । एकाश्रयकोऽनहेतुको वास इति बोधः । अन्ननिष्ठजनकतानिरूपितजन्यताश्रयो वास इति बोधः । अन्नं हेतुं पश्येत्यत्र हेतुशब्दप्रयोगेऽपि तद्दयोत्यत्वाभावान्न षष्ठी । __ सर्वनाम्नः पूर्वोक्तविषये तृतीयाषष्ठीविधायकात् 'सर्वनाम्नस्तृतीया च' इत्यनुशासनात्केन हेतुना कस्य हेतोर्वा वसतीत्यादौ तृतीयाषष्ठयौ । एकायिका-प्रश्नविषयहेतुका वासक्रियेति बोधः ।
'निमित्तकारणहेतुपु सर्वासां प्रायो दर्शनम् ' इत्यनुशासनात् निमित्तं, केन निमित्तेन, कस्मै निमित्तायेत्यादौ प्रथमादयः सर्वाः विभक्तयः । प्रायोग्रहणादसर्वनाम्नः प्रथमाद्वितीये न । पूर्वसूत्रद्वयमप्यनेन गतार्थम् ।
दिग्देशकालरूपार्थकप्रत्यययोगे अन्यारादितिपञ्चम्यपवादषष्ठीविधायकषष्ठयतसर्थप्रत्ययेनेइत्यनुशासनेन ग्रामस्य दक्षिणतः पुरः पुरस्तादित्यादौ षष्ठी, प्रतियोगित्वरूपः संबन्धः षष्ठयर्थः । एवं च विन्ध्याहक्षिणतः इत्यादिप्रयोगाः प्रामादिका एव ।
एनबन्तेन योगे षष्ठथपवादद्वितीयाविधायकेन 'एनपा द्वितीया' इत्यनेन उत्तरेण ग्राममित्यादौ द्वितीया । अत्रैनपेति योगविभागे
............। तत्रागारं धनपतिगृहादुत्तरेणास्मदीयमित्यत्र तूत्तरेणेति तोरणेनेत्यनेन समानाधिकरणं तृतीयान्तं नत्वेनबन्तं तथा च नास्य प्रवृत्तिः ।
Loading... Page Navigation 1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122