Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः । लकारेण कर्तृद्वयबोधासंभवादुक्तन्यायः प्रवर्तते । प्रकृते तु ओदनः पाच्यते देवदत्तेन यज्ञदत्तेनेत्यादिवदुपपत्तिः । नेताश्वस्य सुन्नस्य सुघ्नं वेत्यत्र गुणकर्मणि षष्ठीविकल्प इष्यते । सुनसंबन्ध्यश्वकर्मकनयनकर्तेति बोधः।
उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठीनियामकादुभयप्राप्तौ कर्मणीत्यनुशासनादाश्चर्यो गवां दोहोऽगोपेनेत्यत्र कर्मण्येव षष्ठी। अगोपकर्तृको गोकर्मको दोह आश्चर्य इति बोधः । स्त्रीप्रत्यययोरकाकारयोनियमाभावानेदिका बिभित्सा वा रुद्रस्य जगत इत्यादावुभयत्रापि षष्ठी । मद्रकर्तृका जगत्कर्मिका भेदनक्रियेति भेदितुमिच्छा चेति बोधः । सुटा सीयुटो बाधा नेत्यत्र तु करणे तृतीया।।
अकाकारव्यतिरिक्तस्त्रीप्रत्ययकर्तरि षष्ठीविकल्पविधायकेन ' शेषे विभाषा ' इत्यनुशासनेन विचित्रा जगत: कृतिहरेहरिणा वेत्यत्र कर्तरि षष्ठीविकल्पः । हरिकर्तृका जगत्कर्मिका क्रिया विचित्रेति बोधः । शब्दानामनुशासनमाचार्येणाचार्यस्य वेति प्रयोगानुरोधात्सामान्यमेव शेषशब्दार्थः । आचार्यकर्तृकं शब्दकर्मक विविच्याऽसाधुभ्यः प्रविभज्य बोधनसाधनमिति बोधः।
वर्तमानार्थकक्तप्रत्यययोगे षष्ठीविधायकात् ‘क्तस्य च वर्तमाने , इत्यनुशासनाद्राज्ञां मतो बुद्धः पूजितो चेत्यत्र कर्तरि षष्ठी। राजकर्तृकवर्तमानेच्छाज्ञानपूजाश्रय इति बोधः । गतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने क्तः । एवं राज्ञां मतं, 'नपुंसके भावे क्तः' इत्यत्रापि। पूजितो यः सुरासुरैरित्यादी भूते क्तः न तु वर्तमाने, तेन तृतीया तत्रोपपद्यते । छात्रस्य हसितमित्यत्र शेपत्वविवक्षया षष्ठी, कर्तृत्वविवक्षायां तु तृतीयैव ।
'क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' इत्यनेन विहितस्य क्तस्य योगे षष्ठीविधायकादधिकरणवाचिनश्चेत्यनुशासनादिदमेषामासितं गतंभुक्तं वेत्यत्र षष्ठी, एतत्कर्तृकमासनं गमनं भोजनमिति बोधः। अत्रोभयप्राप्तौ कर्मणीतिनियमाभावादिदमेषां भुक्तमोदनस्येत्युभयत्रापि षष्ठी।
ओदनकर्मकमेतत्कर्तृकं भोजनमिति बोधः । __ लादेश: उ: उकः अव्ययं निष्ठा खलर्थस्तृनैतेयोंगे कर्तृकर्मणोरित्यादिप्राप्तषष्ठीनिषेधविधायकेन 'न लोकाव्ययनिष्ठाखलर्थतनामित्यनुशास
Loading... Page Navigation 1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122