Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 82
________________ वादार्थसंग्रहः [३ भागः संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः । श्रुतायामश्रुतायां या क्रियायामभिधीयते ॥ इति क्रियाकारकपूर्वकत्वमेव संबन्धस्योक्तं सामीप्याद्यपि बुद्धिस्थैकदेशाधिकरणकस्थितिक्रियाकर्तृत्वनिमित्तकमित्यागृह्यम् । अत एव पर्वतस्य वृक्षा इति न, वृक्षपर्वतयोराधाराधेयभावमूलकसंबन्धाभावात् । संयोगो हि नाधाराधेयमूलकः विपरीतं तस्यैव तन्मूलकत्वात्-" इत्युक्तम् । तन्न, मानाभावात् गौरवाच । न च हरिकारिका मानम् । तस्याः मिन्नार्थत्वात् । तथाहि षष्ठयर्थसंबन्धः कर्म, तत्रिधा तद्वोधिका षष्ठयपि त्रिधा । केवलसंबन्धबाधिका, कारकाणामविवक्षापूर्वकसंबन्धबोधिका, कर्तृकर्मादिसंबन्धबोधिका च । तत्र मातुः स्मरतीत्यादौ द्वितीया, ओदनस्य पाचक इत्यादौ तृतीया, सामीप्ये सर्वे (?), चित्रा गावो यस्येत्यादावाद्या । न चात्र विवदितव्यं भाष्ये गुरोरवत (?) इति न्यासे स्पष्टमेव सामीप्यार्थे रवत् (?) पदस्याभिधानात् । भवद्भिरपि अस्ते रित्यादावस्ते: समीपेऽनन्तरे वेति भाष्यव्याख्यानावसरे षष्ठयन्तपदघटितवाक्ये सामीप्यार्थबोधः स्वीकृतः । स च समीपादिपदाध्याहारेण । एवं च चित्रा गावो यस्येत्यादावपि सामीप्यबोधः सति तात्पर्ये तवापीष्टः । एतावान्परो भेदःतव गुरुभूताध्याहारेण बोध इति दुराग्रहः, मम तु षष्ठयर्थ इति । तत्र पष्ठयाः सामीप्यार्थकत्वमेव युक्तम् । अन्यथाऽस्तेरिति षष्ठीश्रवणानन्तरं सामीप्यार्थशङ्कव न स्यात् । नहि पदाध्याहारेण शङ्का युक्ता पूर्वमेव वाच्यार्थोपस्थित्या निराकाङ्कत्वात् । भवद्भिरपि सामीप्याद्यपीत्यादिना स्वीकृतत्वाञ्चेति दिक् । एवं च हरिकारिकायां मातुः स्मरतीत्यादौ कर्मत्वाद्यविवक्षापूर्वको यः संबन्धः स उक्तः । अत एखान्यपदं सार्थकमन्यथा संबन्धः क्रियापूर्वक इत्येव ब्रूयात् । तथा चान्यपदं संबन्धेनान्वेति। एवं च कारकेभ्यः कारक(द्वारा)क्रियान्वितप्रातिपदिकेभ्यः उत्पनया षष्ठयाऽन्यः संबन्धः कारकाविवक्षापूर्वकसंबन्ध उच्यते इत्येवार्थः साधुः । एवं च पर्वतस्य वृक्षा इत्यपि पर्वतसंबन्धिवृक्षा इत्यर्थे साध्वेव । स च संबन्धः जन्यजनकभावः । ग्रामस्य यथा साधारण्यक(?)सस्थ'ण्डिलकत्वार्थकत्वमादाय कूपादीनां ग्रामावयवत्वमादायावयवावयविभावसंबन्धे ग्रामस्य कूप इत्यादौ षष्ठीति भवद्भिरुक्तं, तथा मयाऽपि पापाणमृदक्षादिसमुदायस्य पर्वतपदवाच्यत्वस्वीकारेणावयवाक्य विभावसंबन्धो

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122