Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
११ ग्रन्थः]
लघुविभक्त्यर्थनिर्णयः ।
पूर्वो ग्रामादित्यत्र ग्रामावधिकोदयाचलसन्निहितदेशत्ववानिति बोधः। चैत्रात्पूर्वः फाल्गुन इत्यादौ चैत्रावधिकपूर्वकालभवः फाल्गुन इति बोधः । नन्वत्र पूर्वादिशब्दानां देशकालवृत्तित्वेन दिग्वाचकत्वाभावात्कथमत्र पञ्चमीति चेन्न । दिशि दृष्ट इति व्युत्पत्त्या संप्रत्यदिग्वृत्तित्वेऽपि क्षतिविरहात् अत्र व्याख्यानादिग्विशेष रूढा एव गृह्यन्ते । तेनैन्द्रयादियोगे न । केचित्तु शब्दग्रहणादूढयोरेव ग्रहणमित्यूचुः ।। ___ गृहाद्गङ्गा मम परा काश्याः सैवाऽपरा ममेत्यादितो गृहावधिकमसंबन्धिकपरत्ववती गङ्गेति बोधः । ममेत्यत्र तु न पञ्चमी, प्रत्यासत्त्या यस्य यत्रोत्थिताकाडा तद्वाचकादेव तत्पदनिमित्ता विभक्तिरिति स्वीकारात् । अवयववाचियोगे तु न 'तस्य परमानेडितम्' इति निर्देशात् । तेन पूर्व कायस्येति सिद्धिः । प्राक्प्रत्यग्ग्रामादित्यादौ ग्रामावधिकप्राक्प्रत्यग्देशवृत्तित्ववानिति बोधः । नन्वञ्चूत्तरपदत्वात्सध्यङ् देवदत्त इत्यादौ दोप इति चेन्न । साहचर्येण दिग्वाचकस्यैव ग्रहणात् । न चैवं व्यर्थ तत 'षष्ठयतसर्थप्रत्ययेन' इति षष्ठीबाधनार्थत्वात् । वस्तुतस्तु प्रत्ययाप्रत्ययपरिभाषयैव सिद्धौ तत्र प्रत्ययग्रहणं श्रूयमाणप्रत्यय एव यथा स्यादित्ये.. वमर्थम् । एवं चात्र प्राप्त्यभावेनाचूत्तरपदग्रहणं मास्तु ।
दक्षिणा ग्रामात् दक्षिणाहि ग्रामादित्यादौ ग्रामावधिकदाक्षिणादिशीत्यर्थः।
अपादाने पञ्चमीति सूत्रे यतश्चाध्वकालनिर्माणमिति वार्तिकप्रत्याख्यानाय भाष्ये उक्तमिदमत्रप्रयोक्तव्यं सन्न प्रयुज्यते कार्तिक्याः प्रभृत्याग्रहायणी मासे इति तेन प्रभृत्यर्थयोगे पञ्चमीविधायकानुमितानुशासनेन भवात्प्रभृति आरभ्य वा सेव्यो हरिरित्यत्र पञ्चमी । आद्यक्षणमारभ्येत्यत्र तु आरभ्येत्यस्य गृहीत्वेत्यर्थकत्वेन कर्मत्वाहितीया । __ अपपरिबहियोगे समासविधानादहियोगे पञ्चम्यनुमानानामावहिरित्यादौ पञ्चमी । अवधित्वरूपसंबन्धः पञ्चम्यर्थः । ग्रामावधिकबाहिदेशे इति बोधः । अपपरी वर्जने आङ्मर्यादावचने इत्यनुशासनाभ्यां विहितकर्मप्रवचनीयसंज्ञकानामेषां योगे पञ्चम्यपाल्परिभिरित्यनेन अपहरेः परिहरेः संसारः आ पाटलिपुत्रादृष्टो देव इत्यादौ पञ्चमी । ह. रिप्रतियोगिकवर्जनप्रयोज्यः संसार इति बोधः। पाटलिपुत्रावधिकवृष्टिकर्ता देव इति बोधः । अवधित्वरूपः संबन्धः पञ्चम्यर्थः ।
Loading... Page Navigation 1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122