Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 71
________________ ११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः । कर्तुरित्यपादानत्वेन भक्तिपदात्पञ्चमी । भक्तेर्ज्ञानं कल्पते इति ज्ञानस्य कर्तृत्वेन कारकविभक्तेर्बलवत्त्वेन च ततः प्रथमेति कैयटे स्पष्टमित्यायुक्तम् । तत्परस्परविरोधादसङ्गतमिति सुधीभिरूह्यम् ।। प्राणिनां शुभाशुभसूचकभूतविकाररूपोत्पातज्ञाप्येऽर्थे वर्तमानात्तत्संबन्धबोधकषष्ठयपवादचतुर्थीविधायक-' उत्पातेन ज्ञापिते च' इत्यनुशासनेन वाताय कपिला विद्युदित्यादौ चतुर्थी । वातज्ञापिका कपिला विद्युदिति बोधः। इष्टसाधनरूपार्थहितशब्दयोगे 'तस्मै हितम् 'चतुर्थी तदर्थार्थबलिहितसुख-' इत्यादिज्ञापकसिद्धेन ‘हितयोगे-' इत्यनुशासनेन ब्राह्मणाय हितमित्यादौ षष्ठयपवादभूता चतुर्थी । विप्रसंबन्धीष्टसाधनमिति बोधः । एवं सुखयोगेऽपि ब्राह्मणाय सुखमित्यादौ । 'नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च । इत्यनेन षष्ठयपवादचतुथींविधानाद्धरये नम इत्यादौ चतुर्थी । हर्यवधिकस्वनिकृष्टत्वबोधनानुकूलो व्यापार इति बोधः। एषोऽर्थ्यः शिवाय नम इत्यादौ त्यागो नमःशब्दार्थः । शिवोद्देश्यकत्यागविषयोऽर्घ्य इति बोधः । प्रजाभ्यः स्वस्तीत्यादौ स्वस्तिशब्दो मङ्गलार्थः । प्रजासंबन्धि मङ्गलमिति बोधः । स्वस्त्यस्तु गोभ्य इत्यादौ 'चतुर्थी चाशिषि' इति परामपि पाक्षिकषष्ठी बाधित्वा पुनर्विधानार्थकचकाराञ्चतुर्येव । आशंसाविषयगोसंबन्धिमङ्गलकर्तृकं भवनमिति बोधः । अग्नये स्वाहा स्वधा वर्षटू इत्यादावम्युद्देश्यकस्त्याग इति बोधः। स्वाहादीनां त्यागार्थकत्वात् । अलमितिपर्याप्त्यर्थग्रहणं न भूषणार्थस्य, व्याख्यानात् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि । दैत्यमारणादिसंबन्धिसामर्थ्यवान् इति बोधः । स एषां ग्रामणीः ' इत्यादिनिर्देशात्प्रभ्वादियोगे षष्ठ्यपि साधुः । ननु नमस्करोतिदेवानितिवदुपपदविभक्तः कारकविभक्तिर्बलीयसीत्यनेन नमस्करोति देवेभ्यः, रावणाय नमस्कुर्यादिति भट्टिप्रयोगेऽपि द्वितीया स्यादिति चेन्न, देवान्प्रसादयितुमित्यर्थविवक्षायां क्रियार्थोपपदस्येत्यादिना चतुर्थी । कर्मणः शेषत्वविवक्षायामनेन चतुर्थी । यत्तु मञ्जूषायामुद्देश्यस्य संबन्धत्वेन विवक्षायां षष्ठयपीत्युक्तं, तदसत् , नमःस्वस्तीत्यस्य षष्ठयपवादत्वात् ।। इति चतुर्थी।

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122