Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 69
________________ ११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः । तु तादर्थ्य इतिसूत्रेण सा । तादर्य स एवार्थः प्रयोजनमस्य तत्त्वम् । समभिव्याहृतपदार्थतादर्थ्य विवक्षायां तद्वाचकाच्चतुर्थीति तदर्थः । प्रयोजनं चात्र न जन्यत्वम् । दुःखादेः पापादिजन्यतया दुःखाय पापमित्यापत्तेः । नापि जन्यतयेच्छाविषयत्वम् । स्वर्गादेः पुण्यादिजन्यत्वेने च्छाविषयत्वात्स्वर्गाय पुण्यमित्यापत्तेः । न चेष्ठापत्तिः । तथासति पक्तुं व्रजतीत्यर्थे पाकाय ब्रजतीति निर्वाहाय तुमर्थेति सूत्रप्रणयनवैयात् । पाकादेर्निरुक्तब्रजनाद्यर्थतयैव तद्वाचकाच्चतुर्युपपत्तेः । अपि तु समभिव्याहृतपदार्थनिष्टव्यापारेच्छानुकूलेच्छाविषयत्वं तत्प्रयोजनत्वम् । नत्प्रयोजनकत्वरूपतादयं च तदिच्छाधीनेच्छाविषयव्यापाराश्रयत्वम् । दारुणो यूपेच्छाधीनेच्छाविपयतक्षणादिरूपव्यापारवत्तया यूपार्थत्वमिति तद्विवक्षया यूपपदाच्चतुर्थी । इच्छाधीनेच्छाविषयव्यापाराश्रयत्वं चतुभ्यर्थः । प्रथमेच्छायां यूपादेः प्रकृत्यर्थस्य विषयतयाऽन्वयः । एवं गन्धनाय स्थालीत्यादावूह्यम् । तादृशव्यापारस्तण्डुलधारणादिः । पुण्यादेः स्वर्गेच्छाधीनेच्छाविषयव्यापारानाश्रयतया न स्वर्गाय पुण्यमित्यादयः प्रयोगाः । ब्रजनादेः पाकानुकूलव्यापारानाश्रयतया न पाकाय व्रजतीत्यादावनेन चतुर्थीति तुमर्थाच्चेति सूत्रमिति-गदाधरभट्टाचार्यैरुक्तं तद्व्याकरणाज्ञानमूलकम् । तथाहि आदौ वार्तिके सूत्रत्वभ्रमः । दुःखाय पापं, स्वर्गाय पुण्यमित्यादिप्रयोगाणां सूत्रवार्तिकभाध्यसंमतानामसाधुत्वभ्रमः । तथा क्रियार्थक्रियोपपदविहिततुमर्थघबैवताद य॑स्योक्तत्वेन तादयें चतुर्थ्यप्राप्तौ तुमर्थाच्चेति सूत्रस्य सार्थक्ये स्पष्टेऽपि तद्व्यर्थताभ्रमः । चैत्राश्रिततक्षणादिरूपव्यापारजन्यफलाश्रयस्य दारुणो व्यापाराश्रयत्वभ्रमः । यदि फलेऽपि व्यापारपदवाच्यत्वं तर्हि यूपाय दारु तक्षति चैत्र इत्यादाविव स्वर्गाय पुण्यं करोति चैत्र इत्यादावपि फलरूपव्यापाराश्रयस्य सर्वसंमतत्वात्साधुत्वापत्त्या भवदुक्तमसाधुत्वं न स्यात् । किं च भवन्मतेऽध्ययनाय वसतीत्यादीनामसाधुतापत्तेः ! वसनादेरध्ययनानुकूलव्यापारानाश्रयतया भवदुक्ततादाभावेन चतुर्थ्यप्राप्तेः । अध्ययनं कर्तुं वसतीत्यर्थे क्रियार्थोपपदेति चतुर्थीति चेत्तर्हि यागाय यातीत्यत्रापि यागं कर्तुं यातीत्यर्थे चतुर्युपपत्तौ सूत्रवैययं तदवस्थमेवेति दिक्। नौकाकान्नशुकशगालभिन्ने तिरस्कारस्य स्पष्ट व्यञ्जके देवादिकस्य मन्यतेः कर्मणि तिरस्कारे विभाषाचतुर्थीविधायकेन 'मन्यकर्मण्यनादरे

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122