Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 68
________________ ५४ वादार्थसंग्रहः [३ भागः होतुश्च शंसितरि अभेदान्क्यः । तथा च होत्रभिन्नशंसितृकर्मकहर्षानुकूलो व्यापारः अध्वर्युकर्तृक इति बोधः । नियतकालं वेतनकरणकस्वीकाररूपे परिक्रयणे साधकतमस्य पाक्षिकसंप्रदानसंज्ञाविधायकेन 'परिक्रयणे संप्रदानमन्यतरस्याम्' इत्यनुशासनेन शतेन शताय वा परिक्रीत इत्यत्र संप्रदानत्वम् । तथा च शतनिष्टदानरूपव्यापारसाध्यदेवदत्तकर्तृकस्वीकारकर्मीभूत इति बोधः । क्रियाफलकक्रियोपपदकाप्रयुज्यमानतुमुनः कर्मणि चतुर्थीविधायकेन ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः ' इत्यनुशासनेन फलेभ्यो यातीत्यादौ चतुर्थी । फलकर्मकाहरणफलकं यानमिति बोधः । प्रविश पिण्डीमित्यादौ भक्षणार्थप्रवेशनक्रियोपपदव्वेऽपि पिण्डयास्तुमुन्नन्तकर्मत्वाभावान्न चतुर्थी । यदा तु भोक्तुमिति तुमुन्नन्ताध्याहारस्तदा चतुर्थी भवत्येव । ननु मशकेभ्यो धूम इत्यत्रेवात्रापि स्वकर्मकाहरणनिष्ठ. जन्यता निरूपितजनकतासंबन्धेन फलस्य यानेऽन्वयसंभवात्तादर्थ्यचतुथ्र्यैवोपपत्तौ किं सूत्रेणेति चेत् । फलनिष्ठप्रकारतानिरूपिताहरणनिष्ठविशेष्यतासमानाविकरणप्रकारतानिरूपितविशेष्यताशालि यानमिति बोधे तस्यावश्यकत्वात् । कर्मत्वार्थिकेयम् ।। भाववचनाश्चेति सूत्रविहिततुमुन्समानार्थककृदन्तप्रातिपदिकात्प्रथमार्थे चतुर्थीविधायकेन 'तुमर्थाच्च भाववचनात् ' इत्यनुशासनेन यागाय यातीत्यादौ चतुर्थी । न च तादी इत्यनेन गतार्थता । तुमर्थक्षेत्र तादर्थ्यस्योक्तत्वेनोक्तार्थानामप्रयोग इत्यप्राप्तौ विधानसार्थक्यात् । यष्टुं यातीति बोधः। ___ उपकायोपकारकादिरूपतादर्थ्यविवक्षायां षष्ठयपवादोपकार्यादिवाचकाचतुर्थीविधायकेन तादर्थे चतुर्थी वाच्येति वार्तिकेन यूपाय दारु ब्राह्मणाय दधीत्यादौ चतुर्थी । तस्मा उपकार्यायेदं तदर्थ तस्य भावः । ब्राह्मणादित्वात्ष्यञ् । उपकार्योपकारकत्वरूपसंबन्धः ध्यबर्थः । कृत्तद्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेनेति सिद्धान्तात् । यूपनिष्ठजन्यतानिरूपितजनकताश्रयं दाविति बोधः । ब्राह्मणकर्तृकभोजनोपकारकं दधीति बोघः । एवं मशकेभ्यो धूम इत्यादावपि मशकनिवृत्त्युपकारको धूम इति बोधः । यत्तु व्युत्पत्तिवादे-यूपाय दावित्यादौ न संप्रदानचतुर्थी । अपि

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122