Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः । कर्मकत्वात्पष्ठयां प्राप्तायामितरयोः कर्मसंज्ञायां च वचनम् । ननु कुपक्रोधे इत्यनुशासनात्कोपस्यैव क्रोधपदार्थत्वात्कथं क्रोधस्य कोपमूलत्वमिति चेत् । वाक्चक्षुरादिविकारानुमेयप्ररूढकोपस्यैवात्र क्रोधपदार्थवात् । दुःखजनकक्रियारूपापकारजनकश्चित्तविकारो दुहेः । एवं च योऽस्मान्द्वेष्टीत्यादौ त्वनभिनन्दनं द्विषेरर्थः । तच्च बलवदुःखसाधनताज्ञानजन्योऽप्रीतिजनकश्चित्तवृत्तिविशेषः । एतेन क्रोधो द्वेष इति शब्दशक्तिकायां यदुक्तं तदपास्तम् । अत एव चित्तदोषार्थानामिति नोक्तम् । यदा त्वेषां न कोपमूलत्वं तदा देवदत्तस्य क्रुध्यति दुह्यति देवदत्तमीयंत्यसूयतीत्यपि साध्वेव । कुप्यति कस्मैचिदित्यत्र क्रियया यमभिप्रैतीत्यनेन संप्रदानत्वम् । हरिसंबन्धी क्रोधः । तत्संबन्ध्यपकारजनकेच्छेति बोधः । हरिकर्मकोत्कर्पविषयो द्वेषः । तनिष्टगुणविषये दोषाविष्करणमिति च बोधः।
प्रश्नविषयशुभाशुभपर्यालोचनार्थराधीक्ष्योर्योगे प्रश्नविषयसंवन्धी संप्रदानमित्यर्थकेन ‘राधीक्ष्योर्यस्य विप्रश्नः' इत्यनेनानुशासनेन संप्रदानसंज्ञाविधानात्कृष्णाय राध्यतीक्षते चेत्यत्र चतुर्थी । संबन्धश्च चतुर्थ्यर्थः । कृष्णसंबन्धिप्रश्नविषयशुभाशुभपर्यालोचनानुकूला क्रियेति बोधः । शुभाशुभकर्मणो धात्वर्थेनोपसंग्रहादकर्मकावेतौ । अत एव च गधोऽकर्मकादिति गणसूत्रम् । __ प्रवर्तनापूर्वकाभ्युपगमार्थकप्रत्यापूर्वकशृणोतेयोंगे पूर्वप्रवर्तनाश्रयस्य संप्रदानसंज्ञाविधायकात् 'प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता' इत्यनुशासनाद्विप्राय गां प्रतिशृणोत्याशृणोतीत्यत्र चतुर्थी । विप्रस्य कर्तृप्रयोजकत्वेन हेतुत्वात्कर्तृत्वाद्वा तृतीयाप्राप्तौ वचनम् । चतुर्थ्यर्थः आश्रयत्वं, प्रवर्तनायाश्च जन्यतासंबन्धेनाश्रयेऽन्वयः(?)। तथा च विप्रनिष्टप्रवर्तनाजन्यो देवदत्तनिष्ठोऽभ्युपगम इति बोधः । यत्तु विवक्षान्तरे देवदत्तो गां प्रतिश्रावयतीति भवत्येवेति हरदत्तः, तचिन्त्यम् । देवदत्तो रोचयति मोदकमित्यपि प्रयोगापत्तेः । नचेष्टापत्तिः । रुच्यर्थानामिति सूत्रे हेतुसंज्ञापवादिकेयमिति स्वग्रन्थेन हेलाराजग्रन्थेन च विरोधात् । तस्माद्धेतुसंज्ञायाः बाधादत्र न णिजुत्पत्तिरिति भावः ।।
शंसितृप्रोत्साहनार्थकानुप्रतिपूर्वकगृणातेोंगे पूर्वशंसनरूपव्यापाराअस्य 'अनुप्रतिगृणश्च' इत्यनुशासनेन संप्रदानसंज्ञाविधानाद्धोत्रेऽनुगृणाति प्रतिगृणातीत्यत्र चतुर्थी ।शंसितुः प्रोत्साहने कर्मतयाऽन्वयः ।
Loading... Page Navigation 1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122