Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
५२
वादार्थसंग्रहः
[३ भाग:
प्राप्तायां वचनम् । एकाश्रिता पुष्पसंबन्धीच्छानुकूला क्रियेति बोधः । यदा त्वीप्सिततमत्वेन विवक्षा तदा पुष्पाणि स्पृहयतीति द्वितीयैव । यदा वीप्सितस्येप्सिततमस्य वा शेषत्वविवक्षा तदा षष्ठयेव । अत एव परस्परेण स्पृहणीयशोभमिति कर्मण्यनीयर , 'कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च' इत्यादयः प्रयोगाः।
मञ्जूषायां तु स्पृहयतिरिच्छामात्रवाची इच्छानुकूलमनःसंयोगादिव्यापारवाची च । फलावच्छिन्नेच्छावाची च वा । आये स्पृहेरीप्सित इति संप्रदानत्वम् । तत्र हीप्सितत्वं धात्वर्थव्यापारजन्यफलाश्रयत्वम् । न तु धात्वर्थत्वाग्रहः फलस्य । कर्मसंज्ञा तु धात्वर्थफलाश्रयस्येत्युक्तम् । शेषे षष्ठयपवाद एतत्संप्रदानविभक्तिः । पुष्पसंप्रदानिकेच्छेति बोधः । अन्त्ये कर्मत्वं पुष्पाणि स्पृहयतीति । संप्रदानस्यापि तत्त्वेनाविवक्षायां षष्ठयेवेत्यु क्तम् । तत्र सकलप्रन्थसंमतमदुक्तरीत्यैव प्रयोगनिर्वाहे सर्वधातूनां फलावछिन्नव्यापारवाचित्वस्य प्रसिद्धत्वेन तद्विहाय प्रबलप्रमाणाभावे स्वातन्त्र्येण यत्किंचिदर्थकल्पनस्यानुचितत्वात् ।
यदपि शब्देन्दुशेखरे-'यत्तु ईप्सितमात्रे इयं संज्ञा प्रकर्षविवक्षायां तु परत्वात्कर्मत्वम् । एवं चेप्सितमात्रे ईप्सिततमे वा शेषत्वेन विवक्षिते षष्ठयेव । तत्र शेषत्वेन विवक्षितत्वातिरिक्तस्येप्सितत्वमात्रस्य दुर्वचत्वात् प्रकृतधात्वर्थप्रधानीभूतव्यापारजन्यफलाश्रयत्वस्यैवात्र सत्वेन वारयतिवैलक्षण्यात्, इत्युक्तं, तदप्यसमञ्जसम् । तथाहि पुष्पेभ्यः स्पृहयतीत्यादौ पुष्पवृत्तीच्छानुकूलैकदेवदत्ताश्रयिकात्ममनःसंयोगरूपक्रियेत्यर्थविवक्षायां संप्रदानत्वम् । यदा त्वन्त्येच्छानुकूलेति विवक्षा तदा षष्ठी । एवमेव तण्डुलं पचतीत्यादौ कर्मादीनामविवक्षा, तथा च तत्र फलतावच्छेदकसंबन्धस्य वृत्तित्वादेरेव विशेषरूपस्य सामान्यरूपेण विवक्षायां षष्टी तण्डुलस्य पचतीति । एवं च स्पृहेरीप्सित इत्यनेन फलतावच्छेदकसंबन्धेनेप्सितस्य संप्रदानत्वं न तु तस्यैव रूपान्तरेण सामान्येन संबन्धत्वेनेत्यर्थः । एवं च शेषत्वेन विवक्षातिरिक्तस्येप्सितत्वमात्रस्य दुर्वचत्वादित्यपास्तम् । प्रकृतेत्यादिग्रन्थस्तु प्रकृतेऽनुपयोग इत्युक्त इति दिक्(?)।
विषयतया क्रुधदुहेासूयार्थधातूनां योगे तन्मूलभूतकोपसंबन्धिनः संप्रदानसंज्ञा विधायकात् 'क्रुधदुहेासूयार्थानां यं प्रति कोपः' इत्यनुशासनात् हरये क्रुध्यतीयत्यसूयतीत्यादौ संप्रदानत्वे चतुर्थी । तत्राद्ययोर
Loading... Page Navigation 1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122