Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 64
________________ ५० वादार्थसंग्रहः [३ भागः वत्त्वबोधनार्थम् । तेन विक्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति दण्डप्रदानं न प्रतिपत्तिः । किं तु द्वितीयापेक्षया बलीयस्या चतुर्थीश्रुत्या मैत्रावरुणसंस्कारकमिति मीमांसकोद्घोषः संगच्छते । धात्वर्थक्रियानवच्छेदकधात्वर्थक्रियाजन्यफलभागित्वेनोद्देश्यः संप्रदानमित्यर्थकात् ‘क्रियया यमभिप्रैति स संप्रदानम् ' इति वार्तिकात् 'पत्ये शेते' इत्यादौ संप्रदानत्वे संप्रदाने चतुर्थीति पतिसंप्रदानकं पत्नीकर्तृत शयनमिति बोधः । भाष्यमतेऽध्याहृतारम्भणक्रियाकर्मत्वं शयनस्येति वार्तिकप्रत्याख्यानाकर्मणा यमभिप्रेति स संप्रदानमित्यनेनैव संप्रदानत्वम् । एवं च संप्रदानस्य चरितार्थत्वात्सामर्थ्यात्पर्यायापत्तिरिति पूर्वोक्तमपास्तम् । तथा च पतिसंप्रदानकपत्नीकर्तृकशयनकर्मकं पत्नीकर्तृकमारम्भणमिति बोधः । तथा च हरि: संदर्शनं प्रार्थनायां व्यवसाये त्वनन्तरा । व्यवसायस्तथाऽऽरम्भे साधनत्वाय कल्पते । पूर्वस्मिन्या क्रिया सैव परस्मिन्साधनं मता । अस्यार्थ:संदर्शनं फलविषयः संकल्पः । तत्प्रार्थनायां फलोपायविषयेऽभिलाषे साधनं व्यवसायः क्रियाविशेषस्य फलसाधनत्वेन निश्चयः । तत्रानन्तरा प्रार्थनासाधनम् , अभिलाषे सति निश्चयकरणात्। व्यवसायश्चारम्भे मानस्यां प्रवृत्तौ साधनं तेनाप्यमानत्वेन शयनस्य प्रकृतक्रियाकर्मत्वं, पिण्डीमित्यादौ आक्षिप्तक्रियाकर्मत्ववत् । क्रियार्थोपपदस्येति सूत्रस्वरसाच्च । कटं करोतीत्यादौ तु संदर्शनादयो धात्वर्थाद्भेदेन विवक्ष्यन्ते इति न दोषः । रुच्यर्थानां धातूनां योगे रुचिविषयीभूतद्रव्यजन्यप्रीतिमानर्थोऽपि संप्रदानमित्यर्थकात् 'रुच्यर्थानां प्रीयमाणः' इत्यनुशासनात्, हरये रोचते भक्तिरित्यादौ संप्रदानसंज्ञा । समवायसंबन्धेन हर्याश्रिता भक्तिविषया प्रीतिस्तदनुकूलो भक्तिनिष्टो व्यापार इति बोधः । षष्ठथपवादत्वादाश्रितत्वरूप: संबन्धः चतुर्थ्यर्थः । विषयतारूपफलतावच्छेदकसंबन्धेन प्रीतिसमानाधिकरणो व्यापारो रुचेरर्थः । तथा चाकर्मकोऽयम् । एवं च 'प्रीम् तर्पणे ' इति ज़्यादेश्चुरादेर्वाभिलषतेश्चयोगे न, तयोः सकर्मकत्वेन रुच्यर्थत्वाभावात् । तथा च भक्तिः हरिं प्रीगयति । हरिः भक्तिं अभिलषतीत्यादयः प्रयोगाः । अत एवान्यकर्तृकोऽभिलाषो रुचि.

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122