Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
४८
वादाथसंग्रहः [३ भागः त्यनुशासनापित्रा पितरं वा संजानीत इत्यादौ पाक्षिकी तृतीया । कर्मत्वं तृतीयार्थः । तथा च पितृकर्मकं ज्ञानमिति बोधः ।
द्रव्यगुणक्रियासाधारणकारणरूपहेतौ निर्व्यापारकारणरूपे कालरूपे च हेतौ तृतीयाविधायकाद्धतावित्यनुशासनाद्दण्डन घट: पुण्येन दृष्टो हरिः अध्ययनेन वसतीत्यादौ तृतीया । दण्डहेतुको घटः, पुण्यहेतुकं हरिदर्शनम् , अध्ययनहेतुको वास इति यथाक्रमं बोषः।
इति तृतीया ।
चतुर्थ्यर्थनिर्णयः। का धात्वर्थक्रियाजन्यफलाश्रयेण संबद्धमिष्यमाणस्य कारकस्य संप्रदानसंज्ञाविधायकात् 'कर्मणा यमभिप्रैति स संप्रदानम्' इत्यनुशासनाद्विप्राय गां ददातीत्यादौ विप्रादीनां संप्रदानसंज्ञायां सत्याम् 'संप्रदाने चतुर्थी' इति चतुर्थी।
संप्रदानत्वं च-धात्वर्थक्रियाजन्यफलाश्रयसंबन्धित्वेन कञभिप्रेतत्वम् * । अखण्डोपाधिर्वा* संकेतविशेषसंबन्धेन तत्पदवत्वं वा*। धात्वर्थश्चान्योद्देशेन त्यागानुकूलो व्यापारः । एवं च विप्रोद्देश्यकः गोनिष्ठत्यागानुकूलो व्यापारो देवदत्तकर्तृक इति बोधः । एवं वृक्षायोदकं सिञ्चति, शत्रवेऽस्त्रं मुञ्चति, मित्राय दृतं प्रेषयतीत्यादौ वृक्षाद्देश्यकोदकनिष्ठक्रियानुकूला देवदत्तनिष्ठा क्रियेत्यादिबोधः । [ यदि तु दाधातुयोगे एवानेन संप्रदानत्वमित्याग्रहः, तदा युद्धाय संनह्यत इतिवत् 'तुमर्थाच्च भाववचनात् । इत्यनेन चतुर्थी ? ] ___ यत्तु शब्देन्दुशेखरे दाधात्वर्थश्व स्वत्वस्वस्वत्वनिवृत्त्युभयानुकूलो व्यापारः । तदेकदेशे स्वत्वे चतुर्थ्यर्थस्योद्देश्यस्य निरूपकतयान्वयः । एवं च विप्राभिन्नेच्छाविषयनिरूपितस्वत्वस्वस्वत्वनिवृत्युभयानुकूला क्रिया देवदत्तकर्तृकेति बोधः इत्युक्तं वैयाकरणनव्यैः । परस्वत्वे हेतुश्च त्याग एव वा । अत एव विदेशस्थं पात्रमुद्दिश्य त्यक्तधने स्वीकारमन्तरेणैव पात्रमरणे पिण्डोद्देश्यपुत्रादिभिरेव तद्धनं गृह्यते नान्यैरिति व्यवहार इत्याद्युक्तम् । तन्न ! अन्योद्देश्यकत्वविशिष्टत्यागस्य गुरुत्वेन प्रतिग्रहीत. निष्ठप्रतिग्रहादेरेव तत्र स्वत्वजनकत्वात् । त्यागस्यैव स्वत्वजनकत्वे तु देवदत्तकर्तृकत्यागोत्तरं स्वत्वोत्पत्त्या प्रतिग्रहाभावेऽपि तत्पुत्रैर्ग्राह्यतापत्तिः।
Loading... Page Navigation 1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122