Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
। वादार्थसंग्रहः
[ ३ भागः मर्थः । तृतीयायाः अवच्छिन्नत्वम् । तथा च किंचिभ्यूनबाहुल्यावच्छिन्नयज्ञविद्यावानिति बोधः । नाम्ना सुतीक्ष्ण इत्यादौ नामज्ञाप्यतीक्ष्णत्ववानिति बोधः । सुरथो नाम राजेत्यत्र नामेति लुप्ततृतीयाकं प्रसिद्धार्थकमव्ययम् । तथा च सुरथ इति प्रसिद्धो राजेत्यर्थः । नाम्ना चन्द्रकले. त्यादौ नामभूतचन्द्रकलाशब्दाभिन्नेत्यर्थः । ननु सर्वत्राक्षिप्तक्रियाकरणत्वात्तृतीयासिद्धौ व्यर्थमि(दमि)वि चेन्न । संबन्धत्वेन विवक्षायां षष्ठीबाधनार्थत्वेन सार्थक्यात् । अस्मिन्पक्षे प्रकृत्यादिभ्यः तृतीयायाः संबन्धोऽर्थः ।
द्वयोर्गुणप्रधानभावेन गुणक्रियाद्रव्यैरन्वयबोधकसहशब्दप्रयोगे कचिदप्रयोगे वाऽप्रधाने तृतीयाविधायकात् — सहयुक्तेऽप्रधाने' इत्यनुशासनापुत्रेण सहागतः पिता, पुत्रेण सह पिता स्थूलः, पुत्रेण सह पितुगौरित्यादावार्थान्वयरूपाप्रधानात्तृतीया । तत्प्रयोगं विनाऽपि वृद्धो यूनेत्यादौ बोध्यम् । सहार्थश्च समभिव्याहृतपदार्थसमानकालिकसमानदेशरूपं साहित्यं संबन्धस्तृतीयार्थः। तथा च पुत्रसंबन्ध्यागमनसमानकांलिकागमनवान्पितेति बोधः । पुत्रसंबन्धिस्थौल्यसमानकालिकस्थौल्यवान्पिता पुत्रसंबन्धिगोस्वामित्वसमानकालिकगोस्वामित्ववान्पितेति यथाक्रमं बोधः ।
वैयाकरणनव्यास्तु व्युत्पत्तिवादानुसारेण तृतीयार्थश्च क्रियासमभिव्याहारे सहार्थबलात्प्रतीयमानतत्तक्रियाकर्तृत्वादिकमेव । तथा च पुत्रकर्तृकागमनसमानकालिकागमनवान्पितेति बोधः । द्रव्यगुणसमभिव्याहारे तत्तत्पदार्थसंबन्ध एव । एवं च पुत्रात्कर्तरि तृतीया सिद्धा । न च क्तेनाभिधानम् । इतरसमभिव्याहारं विनाऽपि प्रतीयमानस्वप्रकृत्यर्थक्रियाकर्तुरेव तेनाभिधानात् । एवं पुत्रेण सहागमनं देवदत्तस्येत्यादौ प्रतीयमानकृत्प्रकृत्यर्थान्वयिनोः कर्तृकर्मणोरेव पष्ठी, न तत्प्रतीयमानतद्न्वयिनोरिति न दोषः । तथापि पुत्रेण स्थूल इत्याद्यर्थ सूत्रमित्याहुः । तन्मन्दम् । कर्तृत्वस्य संबन्धत्वेन विवक्षायां क्रियान्वयेऽपि सूत्रस्यावश्यकत्वात् । संबन्धत्वेनाविवक्षायामप्यागत इति क्तप्रत्ययेन कर्तुरुक्तत्वात्तृतीयाऽप्राप्तौ क्रियायोगेऽपि तस्यावश्यकत्वात् । न चेतरसमभिव्याहारं विनेति पूर्वोक्तरीति: साध्वी, संकोचे मानाभावात् । विनिगमनाविरहेण इतरसमभिव्याहारं विना प्रतीयमानस्वप्रकृत्यर्थक्रियाकर्तुरेव क्तेनाभिधानवत् , इतरसमभिव्याहारं विना प्रतीयमानक्रियाकर्तुरेव तृतीयेति वक्तुं शक्यम् । न च 'प्रासोष्ट शत्रुघ्नमुदारचेष्टमेका सुमित्रा सह लक्ष्मणेन'
Loading... Page Navigation 1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122