Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
११ ग्रन्थः ]
लघुविभक्त्यर्थनिर्णयः ।
४९
न चेष्टापत्तिः अरण्यस्थदण्डादेखि कस्यापि स्वत्वाभावेन सर्वेषां विनियुज्यत्वमिति सिद्धान्तभङ्गापत्तिः । भवद्भिरपि स्वत्वं च दानादिनाश्यं प्रतिग्रहादिजन्यमतिरिक्तपदार्थरूपमिति वदद्भिः प्रतिग्रहादेरेव स्वत्वजनकत्वस्योक्तत्वेन पूर्वापरविरोधस्य स्पष्टत्वाच्च ।
तत्संप्रदानं त्रिविधम्-अनिराकरणप्रेरणानुमतिभेदात् । यथाक्रमं देव -- तायाचकोपाध्यायरूपाणि । ननु यग्नये च प्रजापतये च सायं जुहोति, सर्वैर्भूतैरुत्सृष्टजलमूर्जित ( ? ) मित्यादाविव पशुना रुद्रं यजते इत्यादावपि त्यागविशेषरूपक्रियाया रुद्रादेरनिराकर्तृसंप्रदानतया चतुर्थी स्यादिति चेन्न । 'कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा' इति वार्तिकेन कर्मत्वार्थकतृतीया संप्रदानार्थकद्वितीयया च पशुं रुद्राय ददातीत्यर्थेऽपि तस्य साधुत्वबोधनात् । एतेन गौरवितप्रीतिहेतुक्रिया यज्यर्थः । तदर्थतावच्छेदकं फलं प्रीतिः । तदाश्रयतया रुद्रस्य विवक्षितत्वात्कर्मसंज्ञैव नतु चतुर्थी त्यागात्मकतादृशक्रियायां निरुक्तानिराकर्तृसंप्रदानत्वे सत्यपि तदविवक्षणात् । प्रीतिभागितयोद्देश्यत्वरूपसंप्रदानत्वविवक्षायां च रुद्राय यजनमित्यपि प्रयोग इत्यादि तार्किकोक्तमपास्तम् । पशुकरणकरुद्रवृत्चिप्रीतिजनकक्रियेति बोधे तस्य साधुत्वोपपत्तावपि रुद्रोद्देश्यकं पशुकर्मकं दानमिति बोधे साधुत्वं न स्यात् । अनुशासनेनार्थविशेषपुरस्कारेण साधुत्वबोधनात् । अन्यथा गोण्यां व्युत्पादितस्य गोणीशब्दस्य गव्यपि साधुतापत्तेः । तस्मात्संप्रदानत्वविवक्षायां रुद्राय यजनमिस्वस्य साधुत्वाभिधानमयुक्तमेव ।
I
यत्तु ननु कर्मग्रहणं किमर्थं यमभिप्रैतीत्येतावताप्युद्देश्यत्वलाभात् । क्रियाग्रहणं च कर्तव्यम्' इति वार्तिकं च न कार्यमित्यपरं च लाघत्रमिति चेन्न । दानक्रियाभिप्रेतगवा उपाध्याय अभिप्रेयत इति अन्तरङ्गत्वम् । गोरप्युद्देश्यतयान्तरङ्गत्वात्तस्यैव संज्ञा मा भूदित्येतदर्थं तत्सत्वात् । न च कर्मसंज्ञाऽनवकाशा, सामर्थ्यात्पर्यायापत्तेरित्यूचुर्वैयाकरणनत्र्याः । तन्न । पत्ये शेते इत्यकर्मकस्थले संप्रदानसंज्ञायाः सावकाशत्वेन निरवकाशया कर्मसंज्ञया बाधेन पर्यायाभावात् । यद्वा कर्मसंज्ञाया: क्रियाजन्यधात्वर्थफलाश्रयस्यैवेप्सिततमत्वात्तस्यैव कर्मसंज्ञायां तत्संबन्धितयोपस्थितस्य संप्रदानसंज्ञेति व्यवस्थोपपत्तिः । तस्मात्कर्मग्रहणं कर्मणञ्चतुर्थीनिमित्तत्वप्रदर्शनेन कर्म श्रुत्यपेक्षया चतुर्थी श्रुतेर्बल
C
Loading... Page Navigation 1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122