Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
११ ग्रन्थः ] लघुविभक्त्यर्थनिर्णयः । रिति वृद्धाः । तस्यार्थ:-अभिलष्यतिकर्ता हरिः तदपेक्षयाऽन्यः भक्तिरूपस्तत्कर्तृकोऽभिलाषो प्रीत्यनुकूलव्यापारो रुचिरित्यर्थः । विषयकर्तृकोऽभिलाष इति फलितोऽर्थः । आदित्यो रोचते इत्यत्र न प्रीतिवचनम् । प्रीयमाण इति विशेषणाव्याख्यानाद्वा दीत्यर्थस्याग्रहणात् । यत्तु नारदाय रोचते कलह इति नारदादेर्न संप्रदानता किं तु रुच्यानामिति सूत्रेण संबन्धमात्रे चतुर्थीति जयरामभवानन्दप्रभृतितार्किकैरुक्तं तत्तु सूत्राज्ञानात् । नह्यनेन चतुर्थी विधीयते, अपि तु संप्रदानसंज्ञेति दिक्।
श्लाघहस्थाशपां धातूनां योगे बोधयितुमिष्टस्य संप्रदानसंज्ञाविधायकात् 'श्लाघढुङ्ग्थाशपां ज्ञीप्स्यमानः' इत्यनुशासनाद्देवदत्ताय श्लाघते हृते तिष्ठते शपते वेत्यत्र संप्रदानसंज्ञायां संप्रदाने चतुर्थीति चतुर्थी । तत्र ज्ञीप्स्यमानपदेन यस्मै आख्यायते स ज्ञीप्स्यमानः । अथवा यः आख्यायते स ज्ञीप्यमान इति व्याख्याभेदः । तत्राद्ये, शेषत्वाषष्ठयां प्राप्तायां ............ ..................... तथा चात्मगुणबलप्रतिपादनकर्तृकं परकर्मकं वा(?)देवदत्तसंबन्धिलाध्यत्वकथनमिति बोधः । तथा च भट्टिः-श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसाधिप इति । आत्मानं परस्त्रीभ्यः श्लाध्यं कथयन्नित्यर्थः। गोपी स्मरात् कृष्णाय श्लाघते इत्यत्र गोपीकर्तृका स्मरहेतुका कृष्णवृत्तिबोधविषया स्तुतिरिति बोधः । द्वितीये कृष्णं स्तौतीत्यर्थः । एवं हृतिविशिष्टं कृष्णं, स्थित्या शपथेन च कृष्णं बोधयतीति सर्वत्र बोधः।
णिजन्तधृङवस्थान इति धातोर्योगे तदर्थावस्थित्याश्रयसंबन्धि संप्रदानमित्यर्थकेन 'धारेरुत्तमर्णः' इत्यनुशासनेन भक्ताय धारयति मोक्षं हरिरित्यादौ संप्रदानत्वे चतुर्थी । संबन्धोऽत्र विभक्त्यर्थः । हरिकर्तृको भक्तसंप्रदानको मोक्षकर्मकोऽवस्थित्यनुकूलो व्यापार इति बोधः । यदा तु भक्तस्य मोक्षेऽन्वयस्तदा भक्तस्येति षष्ठयेव । एवं देवदत्तस्य शतं धारयतीत्यपि साध्वेव। .
इच्छानुकूलमनःसंयोगरूपव्यापारवाचक- स्पृह ईप्सायाम्' इति चौरादिकयोगे 'स्पृहेरीप्सितः' इत्यनुशासनेनातिशयेच्छाविषयस्य तत्त्वेना. विवक्षायां संप्रदानसंज्ञाविधानात्पुष्पेभ्यः स्पृहयतीत्यत्र चतुर्थी । षष्ठयां
Loading... Page Navigation 1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122