Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 74
________________ वादार्थसंग्रहः [ ३ भाग: कूलव्यापाराश्रय इति वा बोधः । भाष्यरीत्या तु बुद्धिप्राप्तचोरापादानिका तजयपूर्विका निवृत्तिः । तदुपादानिकानिष्टपरिहारफलिका निवर्तनेति वा बोधः । एतद्विषये हेतुत्वापादानत्वाविवक्षायां षष्ठी भवत्येवेति बोध्यमिति वैयाकरणनव्याः । तत्कौस्तुभादिसकलप्रन्थविरुद्धम् । तथा हि 'कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ' इत्यत्र कथं षष्ठीत्याशङ्क संयुगेन विशेषणात्पष्ठीति समाहितम् । तस्माद्धेतुत्वेनाविवक्षायामपि वस्तुगत्या यो हेतुस्तस्यानेनापादानसंज्ञा विधानाद्धेतुतृतीयाषष्ठयोरपवादिका पञ्चमी । अन्यथा हेतुत्वापादानत्वयोरविवक्षयैव सिद्धौ तदनुधावनं व्यर्थ स्यात् । यदपि पापस्य जुगुप्सत इत्युक्तं शब्देन्दुशेखरे तदप्यसमञ्जसमेव फलभेदे प्रत्याख्यानासंभवात् । वार्तिकरीत्या तत्र पष्ठयभावे निर्णीते भाष्यमतेऽप्यनभिधानम्यैव शरणीकरणीयत्वात् । फलभेदाभावेन भाष्योपपत्तावन्यथाव्याख्यानस्यानुचितत्वात् । सर्वैरपि ग्रन्थकारैस्तथा व्याख्यातत्वाच्च । ६० यत्तु भवानन्दैरुक्तं पञ्चम्या हेतुत्वमर्थः । धातोर्यथायथं भयं भयाभावचार्थः । पञ्चम्यर्थः हेतुत्वं धात्वर्थे भये धात्वर्थतावच्छेदके चाभये ऽन्बेति आख्यातार्थाश्रयत्वं परित्राणानुकूलव्यापारश्च । इत्थं च हेतुपञ्चम्यैवोपपत्तौ पृथक्सूत्र प्रणयनं तस्यैव प्रपञ्चार्थमिति । तथा च व्याघ्रहेतुकभयाश्रयः शत्रुहेकभयाभावानुकूलव्यापारवानिति चाऽन्वयधीरिति । तन्न । हेतुपञ्चमीविधायकानुशासनाभावात् । विभाषा गुणेऽस्त्रियामिति गुणे सत्त्वेऽपि चोररूपे द्रव्ये तद्भावात् विभाषेति योगविभागस्यागतिकगतित्वात् गुणातिरिक्तहेतोः पञ्चम्यनुशासनविरहादिति जनिकर्तुरिति सूत्रस्थस्वोत्तरग्रन्थविरोधाश्च । " " , परापूर्वस्य जयतेः प्रयोगेऽसह्यार्थस्यापादानसंज्ञाविधायकेन 'पराजेरसोढः' इत्यनुशासनेनाध्ययनात्पराजयते इत्यादावपादानसंज्ञाविधानात्पञ्चमी | अध्ययनसंबन्धिनी ग्लानिरित्यर्थः । भाष्यरीत्या तु अध्ययनापादानिका निवृत्तिरित्यर्थः । केचित्तु कृत्यसाध्यत्वधीसमानाधिकरस्तद्विषयको त्साहाभावो धातोरर्थः । विषयोऽत्रापादानम् अध्ययनापादानको देवदत्तकर्तृकः उत्साहाभाव इति बोधः । तत्पूर्विका निवृत्तिरिति वा । शत्रून्पराजयत इत्यत्र तिरस्कारानुकूलो व्यापारो धात्वर्थः । रणात्पराजयत इत्यत्र युद्धनिवृत्तिर्धात्वर्थः । पञ्चम्या द्वेषोऽर्थः । तेन रणगोचरद्वेषजन्यनिवृत्तिमानिति बोध इति वदन्ति । 1

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122