Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 72
________________ ५८ वादाथसंग्रहः [३ भागः पञ्चम्यर्थनिर्णयः। स्वाभाविकबुद्धिकल्पितान्यतरसंयोगपूर्वकविभागाश्रयत्वे सति तद्विभागजनकतक्रियानाश्रयत्वरूपस्य तक्रियायां ध्रुवस्य 'ध्रुवमपायेऽपादानम् । इत्यनुशासनेनापादानसंज्ञाविधानाद्वक्षात्पर्ण पतति, धावतोऽश्वात्पतति कुड्यात्पततोऽश्वात्पततीत्यादौ पर्णाश्वकुड्याश्वादीनां निरुक्तध्रुवत्वसत्त्वादपादानत्वे सति पञ्चमी । वृक्षापादानिका पर्णकर्तृकाधोदेशसंयोगानुकूला क्रियेति बोधः । एवं च वृक्षस्थे एव पर्णे भूमिसं. लग्नेऽधोदेशसंयोगानुकूलक्रियासत्त्वेऽपि विभागानाश्रयत्वान्न वृक्षस्यापादानत्वम् । धावनकर्बभिन्नाश्वापादानिका देवदत्तकर्तृका पतनक्रियेति बोधः । अत्राश्वस्य धावनक्रियाश्रयत्वेऽपि विभागजनकतया ततियानाश्रयत्वादपादानत्वम् । कुड्यापादानकपातक–भिन्नाश्वापादानिका देवदत्तकर्तृका पातक्रियेति बोधः । अत्राश्रयभेदाक्रियाभेदं परिकल्प्याश्वस्य पातक्रियाश्रयत्वेऽपि देवदत्तकर्तृकपातक्रियानाश्रयत्वादश्वस्यापादानत्वम् । परस्परस्मान्मेषावपसरतः इत्यत्रान्यतरमेषापादानिकान्यतरमेषकर्तृकापसरणक्रियेति बोधः । एवं वृक्षात्स्पन्दते राज्याचलित इत्यादीनामपि साधुत्वम् । स्पन्दुतेरविभागार्थत्वे तु वृक्षे स्पन्दत इति प्रयोगः । वृक्षं त्यजतीत्यादौ तु कर्मसंज्ञया बाधान्नापादानत्वम् । अपादानत्वं चाखण्डोपाधिः, ध्रुवेत्यादिविहितसंज्ञावत्त्वं वा। नैयायिकास्तु अपादानत्वं स्वनिष्ठोदप्रतियोगितावच्छे दकीभूतक्रियाजन्यविभागाश्रयत्वम् । एवं च वृक्षनिष्ठभेदप्रतियोगितावच्छेदकतन्निष्ठविभागजनकपतनाश्रयं पर्णमित्यन्वयधीः । वृक्षवृत्तिविभागजनकवृक्षवृत्त्यन्योन्याभावप्रतियोगितावच्छेदकपतनाश्रयः पर्णमित्यन्वयधीर्वा । अत्र विभागो भेदश्च पञ्चम्यर्थः । तत्र धात्वर्थतावच्छेदकत्वेन विभागो विशेष्यः । तेन वृक्षं त्यजति खग इत्यादौ वृक्षस्य नापादानत्वमिति वदन्ति । तन्मते वृक्षाद्विभजत इत्यादौ बोधा(वृ? नुपप)त्तिप्रसङ्गः । वृक्षं त्यजतीत्यस्य परया कर्मसंज्ञया बाधादेवोपपत्तौ तदर्थ विभागे धात्वर्थतानवच्छेदकत्वरूपविशेषणवैयय च ।

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122