Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
११ ग्रन्थः ] लघुविभक्त्यर्थनिर्णयः । इत्यादौ समानकालिकत्वरूपसहार्थत्वाभावात्तृतीयानुपपत्तिरिति वाच्यम् । लक्ष्यानुरोधेन कचित् स्थूलकालघटितसमानकालीनत्वस्वीकारात् । नन्वेवं पूर्वमागतोऽयं न पुत्रेण सहेति निषेधानुपपत्तिः। पुत्रगमनाधिकरणस्थूलकालवृत्त्यागमनसंबन्धत्वेन साहित्याभावबाधादिति चेन्न । तत्र क्षणत्वेनैव कालस्य सहशब्दार्थेऽन्तर्भावनीयत्वात् । एवं यत्रैककालेऽपि विभिन्नस्थले भुञ्जानमधिकृत्य न पुत्रेण सह भुङ्क्ते इति प्रयोगः, तत्रैकशालारूपभोजनाधारोऽपि सहशब्दार्थान्तर्भूतः । किंचोक्तरीत्या पिता गतः पुत्रो ऽपीत्यादौ पुत्रे तृतीयापत्तिः। पितुरागमनं पुत्रस्यापीत्यादौ षष्ठयनापत्तिः । अनेकक्लिष्टकल्पनायां फलाभावश्च । न च भाष्यानुरोधात्तथा कल्प्यते । भाष्यस्य पित्रा सह पुत्रेणौदनः पच्यते इत्येवंपरत्वात् ।
यदप्यप्रधानप्रत्याख्यानपरभाष्यमुपपदविभक्तेः कारकविभक्तिर्बलीयसीति यत्र कारकशब्दस्यान्तरङ्गपरतया व्याख्यानं हरदत्तादीनामन्तरङ्गमपि बाधित्वापवादत्वात्तृतीया स्यादित्यनेन दूषयाञ्चक्रुर्नव्याः तदापि न, अपवादो हि यद्यन्यत्र चरितार्थस्त_न्तरङ्गेण बाध्यते । अन्यथा तातङ् सर्वादेशो न स्यात् । क्रियान्वयित्वरूपकारकत्वमादाय शास्त्रव्यवहारादर्शनाच्च । __ 'सहैव दशभिः पुत्रैर्भारं वहति गर्दभी' इत्यादौ ‘पुत्रसंबन्धिभारवहनसमानकालिकगर्दभीकर्तृकभारवहनम् ' इति बोधात्साहित्यबोधक एव सहशब्दः । केचित्तु विद्यमानतावाचिसहशब्दमाश्रित्य दशपुत्राणां विद्यमानत्वेऽपीति बोधमाहुः । तन्न । पुत्रेण सहेत्यत्रापि तथापत्तेः । विवरणे सप्तम्यर्थस्याशाब्दत्वापत्तेश्च ।
विकृतेनाङ्गेन यत्राङ्गिनो विकारो लक्ष्यते तत्र विकृताङ्गवाचकातृतीयाविधायकात् 'येनाङ्गविकारः' इत्यनुशासनादक्षणा कण इत्यादौ तृतीया । अक्षिसंबन्धिनाशवान्सचक्षुष्क इति बोधः । अक्षि काणमस्येत्यादौ तु अङ्गविकारो न त्वङ्गिविकार इति तृतीयाभावः ।।
कंचित्प्रकारं प्राप्तस्य लक्ष्यस्य लक्षणवाचकात्तृतीयाविधायकात् 'इत्थंभूतलक्षणे' इत्यनुशासनाजटाभिस्तापस इत्यादौ तृतीया । लक्ष्यलक्षणभावः संबन्धस्तृतीयार्थः । जटाज्ञाप्यतापसत्वविशिष्ट इति बोधः । . संपूर्वस्य जानातेः कर्मणि तृतीयाविधायकात्संज्ञोऽन्यतरस्यां कर्मणी
Loading... Page Navigation 1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122