Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 58
________________ ४४ वादार्थसंग्रहः [३ भाग अयं कर्ता त्रिविधः-केवलः, प्रयोजको हेतुः, कर्मकर्ता च । देवदत्तेन हरिः सेव्यत इति शुद्धः । क्रियते हरिणेति प्रयोजको हेतुः । गमयति कृष्णं गोकुलमिति कर्मकर्ता,देवदत्ताभिन्नाश्रयको हरिकर्मकः सेवनानुकूलो व्यापारः ।हर्यभिन्नाश्रयक उत्पादनानुकूलो व्यापारः। गोकुलकर्मकगमनानुकूलकृष्णाश्रयतादृशव्यापारानुकूलो व्यापार इति यथाक्रमं बोधः । ननु विवक्षातः कारकविभक्तयो नाना भवन्तीत्युक्तत्वाद्देवदत्तः काष्ठैः पचतीतिवत्काष्ठानि देवदत्तेन पचन्तीत्यपि स्यादिति चेन्न । अर्था हि कर्ता तत्प्रयुक्तेन पदेन(?) । किं च तस्य प्रतिनिधिः दृश्यते । व्रीह्यभावे नीवारैरिज्यते । कर्तुः स नास्ति । तद्भेदे कर्मान्तरमेवेति प्रसिद्धिः । किंच कारकान्तरानुपादानेऽप्यसौ दृश्यते भवत्यादिष्विति सकलकारकचऋप्रयोक्तुरेव मुख्यं कर्तृत्वम् । अन्येषां तु विवक्षारूपगौणकर्तृत्वेन देवदत्तप्रयोजकत्वाभावात् । ननु विवक्षावशात्काष्ठादिकरणादीनां कर्तृत्वादिवसंप्रदानापादानयोरपि कर्तृत्वापत्तिरिति चेन्न । शब्दशक्तिस्वाभाव्यातन्निष्ठक्रियायाः प्राधान्यत्वस्यास्वीकारात् । ननु आत्मानमात्मना वेत्सीत्यादावेकस्य कर्तृत्वकर्मत्वकरणत्वानुपपत्तिः । न च विवक्षावशानिर्वाहः । पर्यायेण तथा वक्तुं शक्यत्वेऽपि आकडारादेका संज्ञा इति नियमादेकस्यैव वस्तुनो युगपदेकक्रियानिरूपितकर्मत्वकरणत्वादेरसंभवादिति चेत्सत्यम् । अत एवाहंकाराद्यपाधिभेदेनात्मनोऽपि भेदं स्वीकृत्य समाहितं भाष्ये । एतेन ननु एकस्यैव करणत्वकर्मत्वस्वीकारे कर्म करणमिति नानाविधव्यवहारोऽनुपपन्नः । व्यवहर्तव्यभेदस्यैव व्यवहारभेदनियामकत्वादिति चेन्न । उपधेयसंकरेऽपि उपाधेरिति न्यायेन व्यवहर्तव्याभेदेऽपि व्यवहर्तव्यतावच्छेदकभेदादेव घटो द्रव्यं पाचकः पाठक इत्यादाविव व्यव हारभेदस्वीकारात् । विवक्षातः कारकविभक्तयो नाना भवन्तीति शाब्दिका अप्यनुकूला इति तार्किकोक्तमपास्तम् । भवदृष्टान्तेन हि देवदत्तः पाचकः पाठक इतिवदात्मा कर्म करणमिति व्यवहारे सिद्धेऽपि एकस्यात्मनः कर्मकरणत्वासंभवात् । अन्यथा आत्मानमात्मना वेत्सीतिवत्काष्ठानिकाष्ठैः पचन्तीत्यपि स्यादिति सर्वोपप्लवः स्यात् । प्रकृतमनुसरामः । तार्किकास्तु कारकविभक्तिरूपतृतीयायाः क्रियान्वयि कर्तृत्वं करणत्वं चार्थः । कर्तृत्वं च मुख्यं क्रियानुकूला कृतिरेव । सा च क ख्यातसमभिव्याहृते चैत्रः पचतीत्यादौ क्रियाविशेष्यतयाख्यातेन प्रत्याय्यते । चैत्रेण

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122