Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
वादार्थसंग्रहः
[ ३ भाग:
1
भयमप्यसत् । सर्वमते उपसर्गाणामवाचकत्वात् । वृक्षमनु विद्योतते विद्युदित्यत्र वृक्षज्ञानजन्यज्ञानविषयो विद्युद्विद्योत इत्येव बोधाद्धेतुत्वाभावाश्च । एवं च कारीर्यभिन्नहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः । अनन्तरोक्त ' सहयुक्तेऽप्रधाने इति तृतीयानिमित्तसहशब्दार्थ साहित्ये द्योत्येऽनोः कर्मप्रवचनीयसंज्ञाविधायकात् ' तृतीयार्थे ' इत्यनुशासनादनोः कर्मप्रवचनीयसंज्ञायां तद्यते नदीमन्ववसिता सेनेत्यत्र द्वितीया । संबन्धो द्वितीयार्थः । तया सह संब (न्धे ? द्वे ) त्यर्थः । साहित्यरूप संबन्धस्य द्विष्ठत्वेऽपि तृतीयावत्प्रतियोगिन्येव द्वितीया । हीनत्वद्योतकानोः कर्मप्रवचनीयसंज्ञा विधायकात् 'हीने ' इत्यनुशासनादनुहरिं सुरा इत्यत्रानोः कर्मप्रवचनीयत्वाद्वितीया । तथा च हरिप्रतियोगि कापकर्षयन्त इत्यर्थः ।
४२
अधिके हीने च द्योत्ये उपेत्यस्य कर्मप्रवनीयसंज्ञा विधायकात् 'उपोधिके च' इत्यनुशासनाद्धीने उप हरिं सुरा इत्यत्रोपशब्दस्य कर्मप्रवच - नीयसंज्ञा । बोधः पूर्ववत् । खार्यपेक्षयाधिको द्रोण इत्यर्थे उप खार्थी द्रोण इत्यादौ यस्मादधिकमिति सप्तमी वक्ष्यते । वैयाकरण नत्र्यैस्तूप सुरान्ह - रिरित्यादौ सुरप्रतियोगिकाधिकत्ववानिति बोधादधिकेऽपि द्वितीया भवतीत्युक्तम् । तन्न । सप्तम्या बाधादुप सुरेषु हरिरित्यस्यैवेष्टत्वात् ।
लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः, इत्यनेन वृक्षं प्रति पर्यनुवा विद्योतते विद्युदित्यादौ प्रत्यादीनां कर्मप्रवचनीयत्वात्कर्मप्रवचनीययुक्ते द्वितीयेति द्वितीया । वृक्षज्ञानजन्यज्ञानविषयो विद्युद्विद्योत इत्यर्थः । भक्तो विष्णुं प्रति पर्यनु वा । अत्र विषयत्वाख्यः संबन्धों द्वितीयार्थः । तस्य पदार्थैकदेशे भक्तावन्वयः । तथा च विष्णुविषयक भक्त्याश्रय इति बोधः । इत्थंभूतः कंचित्प्रकारं प्राप्तः स आख्यायते निरूप्यतेऽनेनेतीत्थंभूताख्यानं प्रकारविशेषनिरूपकत्वम् । लक्ष्मीर्हरिं प्रति परि अनु वेत्यत्र स्वत्वाख्यः संबन्धो द्वितीयार्थः । हरिप्रतियोगिकस्त्वत्ववती लक्ष्मीरिति बोधः । वृक्षं वृक्षं प्रति परि अनु वा सिञ्चतीत्यत्र व्याप्यत्वविशिष्टवृक्षादिकर्मक सेचनक्रियेति बोधः । यदा तु जलनिरूपित संयोगाश्रयत्वं वृक्षे विवक्षितं यदा कर्मत्वस्य संबन्धत्वविवक्षा तदाप्यनेन द्वितीया । वृक्षनिष्ठव्याप्यता निरूपितव्यापकत्ववती सेकक्रियेति बोधः । यदा तु . • तदा. ...... जलं वृक्षं वृक्षं प्रति सिञ्चतीति च प्रयोगः । जले कर्तुरिति कर्मत्वं वृक्षे तु कर्मप्रवचनीयत्वात् द्वितीया ।
......
Loading... Page Navigation 1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122