Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 55
________________ .४१ ११ प्रन्थः] लघुविभक्त्यर्थनिर्णयः। अन्तरान्तरेणाभ्यां योगे द्वितीयाविधायकात् 'अन्तरान्तरेण युक्ते' इत्यनुशासनादन्तरान्तरेण हरिं न सुखमित्यादावत्यन्ताभाववानर्थः । द्वितीयार्थः प्रतियोगित्वमभावेऽन्वेति।तथा हरिपदं हरिभक्तिपरम् । हरिभक्तिप्रतियोगिकाभाववद्वतिसुखसत्ताभाव इति बोधः । तव ममान्तरा कमण्डलुरित्यत्र त्वन्मत्सबन्धी कमण्डलुमध्ये इत्यादन्तरायोगाभावाकमण्डलुना योगेऽपि अन्तरङ्गत्वात्प्रथमा । किमनयोरन्तरेण गतेनेत्यादौ विशेषेण ज्ञातेनेत्यर्थात्तृतीयान्तोऽन्तरेणशब्दो न तु निपातः । प्रकृते तु परस्परसाहचर्यान्निपातस्यैव ग्रहणमिति द्वितीयाभावः । __ कालाध्वनोरत्यन्तसंयोगे कालाध्ववाचकाद् द्वितीयाविधायकात् ‘कालाध्वनोरत्यन्तसंयोगे' इत्यनुशासनात् मासमधीते क्रोशं कुटिला नदीत्यादौ द्वितीया । व्यापकतासंबन्धो द्वितीयार्थः । तथा च मासं व्याप्याध्ययनमिति बोधः । अधिकरणत्वविवक्षायां तु मासेऽधीत इत्येव प्रयोगः। अन्तरान्तरेणेत्यनेन साहचर्यात्संबन्धत्वप्रकारक एक्तस्य प्रवृत्तः। अत एवैकादश्यां न भुजीतेत्यस्य साधुत्वम् । ननु त्रिंशद्दिनेषु कंचित्कालमध्ययनेऽपि मासेन सर्वव्याप्त्यभावे कथं प्रयोग इति चेन्न । यत्समुदायो मासादिपदार्थः त एव तदवयवाः । एवं च प्रत्यहं त्रिंशदिनेषु कंचि. कालमध्ययनेऽपि तदवयवव्याप्तिसत्त्वाद् द्वितीयोपपत्तिः । दिनं स्वपितीत्यादिप्रयोगस्तु नैकदण्डादिस्वापे दिनावयवव्याप्त्यभावात् । ज्ञानजनकज्ञानविषयत्वरूपलक्षणत्वद्योतकस्यानोः कर्मप्रवचनीयसंज्ञाविधायकात् 'अनुर्लक्षणे इत्यनुशासनात्कारीरीमनु वृष्टिरित्यत्र कर्मप्रवचनीयसंज्ञायां सन्त्याम् ' कर्मप्रवचनीययुक्त द्वितीया' इति द्वितीया । अत्रानोरनुभूयत इत्यत्रेव न क्रियागतविशेषद्योतकत्वम् । षष्ठीवन संब न्धबोधकत्वं द्वितीययैवोक्तत्वात् । नापि विलिखतीत्यत्र विमाय लिखतीतिवत् क्रियापदाक्षेपकत्वं किंतु द्वितीयार्थसंबन्धस्य लक्ष्यलक्षणभावरूपविशेषेऽवस्थापनम् । तदुक्तम् क्रियाया द्योतको नायं संबन्धस्य न वाचकः । नापि क्रियापदाक्षेपी संबन्धस्य तु भेदकः ॥ इति । संबन्धभेदकत्वाभावेऽपि कचिद्विधानसामर्थ्यात्संज्ञा । अत्र द्वितीयार्थः संबन्धः हेतुश्च । अत्र शब्दशक्तिप्रकाशिकायामनुशब्दस्य क्रियावाचित्वादित्युक्तं, भाट्टरहस्ये च हेतुसमानाधिकरणमनोरर्थ इत्युक्तं, तदु

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122