Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 54
________________ वादार्थसंग्रहः [३ भाग. ज्ञानसामान्यार्थस्यैव ग्रहणात् । अत्र दृशेश्वेत्येव लिङ्गम् , अन्यथा दर्शनस्यापि बुद्धिविशेषत्वात्तेनैव सिद्धे किं तेन।। हृक्रोरणौ कर्तुणौँ कर्मत्वविधायकात् 'हक्रोरन्यतरस्याम् ' इत्यनुशासनात् हारयति कारयति भृत्येन भृत्यं वो कटमित्यादौ विकल्पेन कर्मसंज्ञा । भृत्यकर्तृकं तत्कर्मकं वा कटकर्मकं हरणं करणं वा तदनुकूला देवदत्तकर्तृका प्रवर्तनेति बोधः । __ आत्मनेपदिनोरभिपूर्वकवदिदृशोरण्यन्तकर्तुर्ण्यन्ते विकल्पेन कर्मसंज्ञाविधायकेनाभिवादिदृशोरात्मनेपदेवेति वाच्यमित्यनुशासनेनाभिवादयते दर्शयते देवं भक्तेन भक्तं वेत्यादौ भक्तकर्तृकं तत्कर्मकं वा देवकर्मकमभिवन्दनं दर्शनं वा तदनुकूला प्रवर्तना देवदत्तकर्तृकेति बोधः। . तसन्तोभयसर्वयोर्योगे धिक्-उपर्युपरि-अधोऽअधोऽध्यधीत्येतेषां च योगे द्वितीयाविधायकात् — उभसर्वतसोः कार्या धिगुपर्यादिपु त्रिपु । . द्वितीयानेडितान्तेषु ततोऽन्यत्रापि दृश्यते' इत्यनुशासनादुभयतः कृष्णं गोपा इत्यादौ द्वितीया । कृष्णसंबन्धिपार्श्वद्वयवर्तिनः इति बोधः । धिक् कृष्णाभक्तमित्यादौ कृष्णाभक्तसंबन्धिनिन्देत्यर्थः । उपर्युपरि अधोऽधोऽध्यधि वा लोकं हरिरित्यादौ सामीप्यरूपः संबन्धो द्वितीयार्थः । लोकसमीपोर्बभागवृत्तिहरिरिति बोधः । एवं समीपाधोभागवृत्तिः समीपदेशवृत्तिरिति यथाक्रमं बोधः । 'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि' इत्यनुशासनादभितः परितो वा कृष्णं गोपा इत्यादौ द्वितीया । अनयोः खण्डशः शक्त्या सर्वावच्छेदेनेत्यर्थः । तदेकदेशे सर्वस्मिन् द्वितीयार्थसामीप्यसंबन्धान्वयः कृष्णसंबन्धिसर्वावच्छेदेनेत्यर्थः । अभित इति आभिमुख्ये(वा?) कृष्णसंमुख इत्यर्थः । समया ग्रामं निकषा वेत्यत्राव्यये सामीप्यार्थे । द्वितीयार्थो निरूपि तत्वं ग्रामनिरूपितसामीप्यवदित्यर्थः।हा कृष्णाभक्तमित्यादौ कृष्णाभक्तसंबन्धी शोक इत्यर्थः । ननु हा पितः क्कासीत्यत्र तथा हा तातेत्यत्रापि पितरि द्वितीयापत्तिरिति चेन्न । पितृसंबोधकप्रश्नविषयसत्ता शोच्येत्य त्पितरि हाशब्दयोगाभावात् । यद्वा हेत्यस्य मामित्यनेन संबन्धः । ईदृशपितृवियोगादहं शोच्योऽथवा मम कष्टमिति बोधः । पित्रैव हाशब्दयोग इत्याग्रहे तु अन्तरङ्गत्वात्प्रथमा ।

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122