Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
__वादार्थसंग्रहः
[३ भागः वृत्युत्तरदेशसंयोगानुकूलो व्यापार इति बोधः । संयोगस्य द्विष्टत्वेऽप्यजा ग्रामसंबद्धा भववितीच्छा न तु ग्रामः अजासंबद्धो भवत्वित्युद्देशः । तेनाजायाः कर्तुरिति कर्मत्वं ग्रामस्य त्वकथितं चेत्यनेन । ___ अकर्मकधातुभिर्योगे देशभावकालगन्तव्याध्वानां कर्मसंज्ञाविधायकात् 'अकर्मकधातुभियोगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्' इति वार्तिकान्मासं जीवति, क्रोशं स्वपिति, गोदोहं तिष्ठति कुरून्क्रीडतीत्यादौ कर्मसंज्ञा । माससंबन्धिप्राणधारणानुकूलव्यापारो देवदत्तकर्तृकः इत्यादि बोधः । अधिकरणत्वविवक्षायां तु सप्तम्येव, समायां विजायत इति यथा । अत्र च निनु देशपदेन कुरुपञ्चालादिग्रहणात्कथमिदमपि चेन्न । विनिगमकाभावेनोभ (यप ? यार्थ) कत्वसंभवात्।] समानोदरे शयित इति निर्देशोऽपि लिङ्गम्। एतेन मासं जीवतीत्यादावधिकरणरूपं गौणमेव कर्मत्वं सुपाऽनुभाव्यते । मासाधिकरणकजीवनवानिति बोध इति जयरामायुक्तमपास्तम् ।
अभिनीत्येतत्संघातपूर्वकाद्विशतेराधारस्य कर्मसंज्ञा विधायकात् 'अभिनिविशश्च ' इत्यनुशासनादभिनिविशते सन्मार्गमित्यादौ कर्मसंज्ञा । सन्मार्गविषयकाग्रहवानिति बोधः । एष्वर्थेष्वभिनिधिष्टानामिति भाष्यप्रयोगात्कचिन्न । तेन पापेऽभिनिवेश इत्यादिसिद्धिः ।
उप-अनु-अधि-आङ्-पूर्वस्य वसतेराधारस्य कर्मसंज्ञाविधायकात् 'उपान्वध्याङ्वसः' इत्यनुशासनादुपवसति अनुवसति अधिवसति आवसति वा ग्राम सेनेत्यादावधिकरणत्वं द्वितीयार्थः । तथा च सेनाकर्तृको ग्रामाधिकरणको निवास इति बोधः । अत्र तु लुग्विकरणपरिभाषया वस निवास इत्यस्यैव ग्रहणं, न तु वस आच्छादन इत्यस्य । तेन गृहेऽनुवस्ते इत्यादिसिद्धिः । भोजननिवृत्तिवाचकस्य वसेः प्रतिषेधबोधकात् 'वसेरश्यर्थस्य प्रतिषेधः' इत्यनुशासनाद्वन उपवसतीत्यादौ तु न । ' उपोध्य रजनीमेकाम् ' इत्यादौ तु कालाध्वनोरित्यनेन द्वितीया। ___ अधिपूर्वकशीस्थासामाधारस्य कर्मसंज्ञाविधायकादषिशीस्थासांकमेंत्यनुशासनादधितिष्ठति अधिशेते अध्यास्ते वा वैकुण्ठं हरिरित्यादौ कर्मसंज्ञा, तेन हर्याश्रिता वैकुण्ठाधिकरणिका शयनक्रियेति बोधः । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणां धातूनामण्यन्तावस्थायां
१ अर्थशब्दो निवृत्तिवाचीति कैयटः । अश्यर्धस्य वाचको यो सिस्तस्येत्यर्थः ।
Loading... Page Navigation 1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122