Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः। एवं चैकाश्रयकः गोवृत्तिनिर्गमप्रतिबन्धानुकूलो व्यापारी ब्रजसंबन्धीति बोधः । अत्राधिकरणत्वाविवक्षायामनेन कर्मत्वम् ।
गुरुं धर्म पृच्छतीत्यादौ जिज्ञासाबोधकव्यापारो धात्वर्थः । बोधेगुरुवृत्तित्वस्य जिज्ञासायां धर्मविषयकत्वस्य चान्वयः । तथा च धर्मविषयकजिज्ञासाविषयकगुरुवृत्तिज्ञानानुकूलः देवदत्तकर्तृको व्यापार इति बोधः।
वृक्षमवचिनोतिफलानी यादौ ग्रहणानुकूलो व्यापारोधात्वर्थः । अन्ये विभागपूर्वकमादानं चेरर्थ इति वदन्ति तन्त्र, विभागस्यार्थसिद्धत्वाद्वाच्यताकोटौ निवेशे गौरवात् । तथा चैकदेवदत्ताश्रयकः फलवृत्तिग्रहणानुकूलो व्यापारो वृक्षसंबन्धीति बोधः ।।
शिष्यं धर्म बेत इत्यादौ ज्ञानानुकूल: शब्दप्रयोगरूपो व्यापारोधात्वर्थः । एकदेवदत्ताश्रयकः शिष्यसंबन्धी धर्मविषयकज्ञानानुकूलो व्यापार इति बोधः । अन्ये तु प्रतिपत्त्यवच्छिन्नव्यापारो वदिवचित्रुविउपदिशियाचतीनामर्थः । तन्निष्टायां प्रतिपत्तौ शिष्यस्याधेयत्वेन धर्मस्य विषयत्वेनान्वयः । धर्मविषयिणी या शिष्यनिष्ठा प्रतिपत्तिस्तदनुकूलो व्यापारो देवदत्तनिष्ठ इति बोधमाहुः ।।
[केचित्तु ज्ञानोद्देश्यकशब्दजनककृतावित्यर्थः । शब्दस्य सविषयकत्वाभावात् धर्मविषयककृत्यधीनःशब्द इति बोधमाहुः । कृत्यधीनःशब्दोऽर्थः । ज्ञानेशिष्यवृत्तित्वस्य शब्दे च धर्मविषयकत्वस्यान्वयः । तथा च शिष्यवृत्तिज्ञानोद्देश्य अपरे तु विषयतया ज्ञानानुकूलः शब्दप्रयोगरूपो व्यापार इति वदन्ति ? ] । तत्राद्ये क्रियावाचित्वाभावाद्धातुत्वाभावः। द्वितीये गौरवम् । तृतीये शब्दं ब्रूते इत्यादावनन्वयः। तस्मादुचारणानुकूलव्यापारोऽर्थः । धर्मपदस्य तत्प्रतिपादकशब्दे लक्षणा । तथा च गुर्वाश्रितः धर्मप्रतिपादकशब्दकर्मकोच्चारणानुकूलो व्यापारः शिष्यसंबन्धीति बोधः । संबन्धस्तूद्देशरूपः । एवं च धर्मोपदेशकाले प्रसङ्गाच्छूद्रेण श्रुतेऽपि शूद्र धर्म ब्रूते इति न प्रयोगः। ___ शिष्यं धर्ममनुशास्तीत्यादौ प्रवृत्तिपर्यवसायी नर्थ एव शासेरर्थः । तथा च गुर्वाश्रितः प्रवृत्तिपर्यवसायी धर्मप्रतिपादकशब्दकर्मकोञ्चारणानुकूलो व्यापारः शिष्यसंबन्धीति बोधः।
अजां ग्रामं नयति भारं वहति हरति कर्षतीत्यादावुत्तरदेशसंयोगानुकूलन्यापारो नयत्यादेरर्थः । तथा च देवदत्ताश्रितः ग्रामसंबन्धी अजा
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122