Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 50
________________ ३६ वादार्थसंग्रहः [३ भागः रिति चेन्न । अन्तरङ्गत्वात्समवायसंबन्धवति चरितार्थों विधिः संयोगसंबन्धवति न प्रवर्तते । तथा युक्तमित्येकवचनादेकस्मिल्लक्ष्ये उ(क्तमु?)भयत्रापादयितुमशक्यम् । अन्यथा देवदत्ताय स्वाल्यां हस्तेन गां दोग्धि पय इत्यादौ सर्वत्र द्वितीयापत्तिः, अधिकरणसंज्ञाकरणसंज्ञयोरपि पूर्वत्वात् । यत्र तु न समवायसंबन्धवदुपस्थितं तत्र संयोगादिसंबन्धग्रहणम् । स्थाली दोग्धि पय इत्यादौ ब्रजमवरुणद्धि गामितिवदिष्टापत्तिः। . वैयाकरणनव्यास्तु-स्वामिनः सत्त्वनिवृत्तिस्वस्वत्वोत्पत्त्युभयानुकूलो व्यापारो दीयतामित्यभिलापादिरूपो दिदापयिषाव्यञ्जको याचेरर्थः । अविनीतं विनयं याचते इत्यत्र तु स्वीकारानुकूलो व्यापारो याचेरर्थः । स्वीकारश्चेदमवश्यं करिष्यामीति अभिला(षा?पा)दिजनको ज्ञानविशेषः । फलतावच्छेदकसंबन्धो विषयता। अत्रापादानादिविषयाभावादनेन कर्मत्वमित्याहुः । तन्न, पुत्रार्थ कन्यां याचते इत्यनापत्तेः, स्वधनं याचते इत्याद्यनापत्तेश्च । उभयत्र यथाक्रमं स्वस्वत्वोत्पत्तिस्वामिस्वत्वनिवृत्त्यभावात् । ___यत्तु पौरवं गां याचते इत्यादौ स्वोदेश्यकदानेच्छा याचेरर्थः । प्रधानकर्मगवाद्यन्वितद्वितीयार्थविषयत्वं धात्वर्थतावच्छेदकदानेऽन्वेति । स्वविषयकज्ञानादिरूपविषयोपहितेच्छाबोधकधातुस्थले इच्छाविषयविषयत्वमेव प्रधानकर्मत्वम् । अत एव घटो जिज्ञास्यते इत्यादौ घटादेः सन्नन्तकर्मतेत्यादि व्युत्पत्तिवादे उक्तम् । तन्न । पुत्रार्थ कन्यां याचते इत्यनापत्तेः स्वसंप्रदानकदानेच्छां प्रति फलालाभशङ्कया देहीत्यवदत्यपि तथाप्रयोगापत्तेश्च । ___ मम तु प्रतिभाति-बुद्धया निश्चितलाभानुकूलो व्यापारो याचेरर्थः । अनिश्चितस्तु भिक्षतेः । तस्माद्भिक्षतेर्याचतिसमानार्थकत्वं वदन्तो उपेक्ष्याः । अत एव स्वधनं याचत इति प्रयागो नतु भिक्षते इति । इदं च भाष्येऽपि दुहियाचिभिक्षीति उभयोः पृथग्ग्रहणाद्धनितम् । यदपि याचनमात्रादपायाभावेन बलेगी याचते इति नेष्टमिति स्पष्टं भाष्ये इत्युक्तम् । तदपि न । पूर्वपक्षभाष्ये तथोक्तेऽपि तदुत्तरसिद्धान्तभाष्ये कारक चेद्विजानीयाद्यां यां मन्येत सा भवेदिति पौरवाद्याच्यते कम्बल इति भवत्येवेति वदतो भाष्यकारस्य बलेगी याचत इत्यादिप्रयोगस्यापीष्टत्वात् । ब्रजमवरुणद्धि गामित्यादौ निर्गमप्रतिबन्धानुकूलो व्यापारो धात्वर्थः ।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122