Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 48
________________ ३४ वादार्थसंग्रहः [३ भागः य्यते । अतः काष्ठानि भस्मराशिः क्रियन्ते इत्यादावाख्यातार्थविशेष्यकाष्ठादिवाचकपदसमानवचनत्वमाख्यातस्य न तु निर्वय॑भस्मा दिरूपविकारवाचकपदसमानवचनता । अथैवं निवर्त्यवाचकपदात्प्रथमा न स्यात् । तत्कर्मतायाः लकारेणानभिधानादिति चेत्सत्यं, काष्ठं भस्म क्रियत इत्यादौ भस्मादिनिर्वर्त्यकर्मताया लकारेणानभिधानेऽपि तत्कर्मतायाः धात्वर्थसंसर्गतया भानोपगमेन तादृशकर्मोत्तरं प्रथमायाः साधुता, प्रातिपदिकाथेविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीयादिविभक्तेः साधुत्वात् । न च धात्वर्थे नामार्थस्य साक्षादन्वयोऽव्युत्पन्न इति प्रकृते संसर्गतया भानं न संभवतीति वाच्यम् । घटो नीलो भवतीत्यादौ भवनादिक्रियायां नीलादेः कर्तृतासंबन्धेन साक्षादन्वयवदत्रापि व्युत्पत्तिवैचित्र्येण कर्मान्तरविशेषणतापन्नक्रियायामपरकर्मणः कर्मतासंबन्धेनान्वयोपगमात्। न चैवमपि कर्मत्वस्य प्रकृत्यर्थविशेष्यत्वेन विवक्षायां काष्ठं भस्मराशि क्रियते इति प्रयोगापत्तिः । कर्मान्तरविशेषणतानापन्नक्रियायामेव द्वितीयया कर्मत्वं बोध्यत इति व्युत्पत्तिकल्पने गौर्युह्यते क्षीरमजा नीयते ग्राममित्यादिदोहननयनादिक्रियायां क्षीरग्रामादिकर्मत्वानन्वयप्रसङ्ग इति वाच्यम् । प्रकृतिविकृत्युभयकर्मस्थले तथा व्युत्पत्तेः । यथोक्तातिप्रसङ्गवारणाय दर्शिता व्युत्पत्तिः कल्प्यते । तथा कर्तृविशेषणतानापन्नक्रियायामेव कर्तृत्वान्वय इत्यपि व्युत्पत्तिः कल्प्यते । अन्यथा प्रकृत्यर्थविशेष्यतया कर्तृत्वविवक्षया काष्ठं भस्मना भवतीति प्रयोगस्य दुरित्वात् '-इति व्युत्पत्तिवादे उक्तम्। तत्र प्रकृतेः कर्मत्वमेव बोध्यते इत्यत्र मानाभावात् । प्रत्युत ‘सुवर्णपिण्डः खदिराङ्गारसदृशे कुडले भवतः ' इति भाष्योदाहरणविरोधश्च । यदपि नीलो घटो भवतीत्यादी व्युत्पत्तिवैचित्र्येण नीलस्य कर्तृतासंबन्धेन भवने तस्याश्रयतासंबन्धेन घटेऽन्वयः । तथा च नीलकर्तृकभवनाश्रयो घट इत्युक्तम् । तदपि न, विना प्रमाणं व्युत्पत्तेर्बाधायोगात् । न चान्वयानुपपत्तिर्मानम् , नीलघ. टयोरभेदबोधोत्तरं भवनस्याश्रयतासंबन्धेन विशिष्टेऽन्वयेपि 'सविशेषणे विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे' इति न्यायेन विशेषणे एवान्वयो भविष्यति स्वर्गी ध्वस्त इत्यादौ यथा । . वस्तुतस्तु तादृशव्युत्पत्तौ मानाभावः । ओदनः पचतीत्यादौ तार्किकरीत्या पाके ओदनस्य कर्मतासंबन्धेनान्वये विवक्षिते प्रातिपदिकार्थत्वाभावेन प्रथमाया अनुत्पत्तौ तादृशप्रयोगस्यासाधुत्वाच्छाब्दबोधजनक

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122