Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
११ ग्रन्थः ] लघुविभक्त्यर्थनिर्णयः । मिति स्पष्टं प्रतीयते । अस्तु वा द्विकर्मकत्वं तथापि गोः प्रधानकर्मत्वाभिधानमनुचितमेव । तथात्वे हि 'प्रधाने नियता षष्ठी गुणे तूभयथा भवेत् ' इति भाष्याद्गोरूपे कर्मणि नित्यं षष्ठी स्यात् । तथा च गां पयसो दोग्धेति प्रयोगो न स्यात्। न चात्रानुद्देश्यत्वरूपगौणकर्मत्वमादाय प्रयोगोपपत्तिरिति वाच्यम् । पयसः शाब्दमप्राधान्यसादाय षष्ठीविकल्पापत्तौ गोः पयो दोग्धेत्यस्याप्यापत्तेः । प्रकृते च शाब्दाप्राधान्यस्यैवोचितत्वाच्च । एतेन
दुहादिभ्यः प्रत्ययेन मुख्यं कर्मत्वमुच्यते । .
णिजन्तेभ्यः कर्तृताख्यं तदसत्त्वेऽन्यकर्मता ॥ दुहाद्युत्तरप्रत्ययेन मुख्यं साक्षाद्धात्वर्थतावच्छेदकं यत्कर्मत्वं तदेवोच्यते धात्वर्थविशेष्यत्वेनानुभाव्यते । तेन गौः पयो दुह्यते दुग्धा वेत्यत्र पयःकर्मकमोचनानुकूलव्यापारजन्यमोचनवती गौरित्येव बोधः । तत्र मोचनावच्छिन्नव्यापारस्य धातुवाच्यतया मोचनस्यैव साक्षाद्धात्वर्थतावच्छेदकफलत्वादित्यादिव्युत्पत्त्यैव संपत्तौ दुहादेगौणं कर्म, नीवहादेः प्रधानं कर्मेत्याधुक्तिभेदेन विधिद्वयं शाब्दिकानामनादेयमिति शब्दशक्तिप्रकाशिकायां जगदीशोक्तमनादेयं, गोः प्रधानकर्मत्वे षष्ठीविकल्पो न स्यात् । किंच पचतिवत्करोतेच॑र्थत्वे तण्डुलान्पचतीतिवद्विकाररूपकरोत्यर्थमादाय काष्ठं करातीति प्रयोगापत्तिः । तस्मात्प्रकृतिविकृतिस्थलेऽभेद एव शरणम् । (उभयगतैकैव कर्तृकर्मादिकारकशक्तिः प्रकृतिविकृत्योरभेदत्वादित्यर्थः ।) अन्यथा विकृतिगतकर्तृत्वस्योक्तत्वेऽपि प्रकृतिगतस्यानुक्तत्वात्तृतीयाप्रसङ्गः । अत एव सुवर्णपिण्डः खदिराङ्गारसदृशे कुण्डले भवत इति भाष्यम् । कारकशक्तिभेदे तु अन्यतरकारके लकारापत्तिः । तथा च प्रयोगासंगतिः स्पष्टैव । एवं च काष्ठानि भस्मराशिः क्रियते इति प्रयोगः । नच 'गृह्णाति वाचकः संख्या प्रकृतेर्विकतेर्नहि' इति वचनविरोधः । तस्य चान्तमात्रविषयत्वात् (?) । तत्र मानं तूक्तभाष्यमेव ।
एतेनैको वृक्षः पञ्च नौका भवतीति भूधातूत्तरमेकवचनं प्रयुञ्जानाः परास्ताः । प्रकृतिविकृतिभावव्यतिरिक्तोद्देश्यविधेयभावस्थले तूदेश्यसंख्यासमानवचनत्वमाख्यातस्य । अत एव शास्त्राणि चेत्प्रमाणं स्युरित्यादयः प्रयोगाः ।
यत्तु प्रकृतिविकृतिभावस्थले कर्माख्यातेन प्रकृतेः कर्मत्वमेव प्रत्या
Loading... Page Navigation 1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122