Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 45
________________ ११ ग्रन्थः ] लघुविभक्त्यर्थनिर्णयः । इति बोधः । वृत्तित्वं संसर्गः । व्युत्पत्तिवादे तु ब्राधातुसमभिव्याहृतद्वितीयायाः आधेयत्वमर्थः । तस्य व्युत्पत्तिवैचित्र्येण धात्वर्थैकदेशे गन्धेऽन्वयः। एवं च पुष्पवृत्तिगन्धलौकिकप्रत्यक्षाश्रय इति बोधः इति । तन्न । गन्धस्य धातुवाच्यत्वे धात्वर्थसंगृहीतकर्मत्वेन नृत्यादिवदकर्मकत्वापत्तेः । पुष्पपदोत्तरं द्वितीयानापत्तश्च । आमोदमुपजिव्रतीत्यत्रोपसर्गवशेन धातोर्ज्ञानमात्रमर्थः । तथा चामोदविषयकज्ञानानुकूलो व्यापार इति बोधः । अथवाऽऽमोदग्रहणानुकूलो व्यापार इति बोधः । ___ कर्म सप्तविधं-निर्वत्य, विकार्य, प्राप्यम्, औदासीन्यप्राप्यं, कतुरनीप्सितं, संज्ञान्तरैरनाख्यातं, अन्यपूवैकमिति । तत्र निर्वर्त्य घटभस्मादिरूपं, विकार्य मृत्काष्ठादिरूपं, प्राप्यं रूपं पश्यतीत्यादि, औदासीन्यप्राप्यं तृणं स्पृशतीति, कर्तुरनीप्सितं विषं भुङ्क्ते, संज्ञान्तरैरनाख्यातं गां दोग्धि पय इत्यत्र गोरूपं, अन्यपूर्वकमधितिष्टति वैकुण्ठमित्यादि।। ननु मृत्काष्ठयोर्विकार्यकर्मत्वमयुक्तं क्रियाजन्यफलाश्रयत्वाभावादिति चेत् न । प्रकृतिविकृत्योर्निरूढयाऽभेदविवक्षयोत्पत्त्याश्रयत्वात् । भूषणे काष्ठानि विकुर्वन्भस्म करोतीत्यर्थः। तण्डुलान्विक्लेदयन्नोदनं निवर्तयतीति वत् । एतच्च व्यर्थः पचिरिति प्रक्रम्य भाष्ये व्युत्पादितमित्युक्तम् । वैयाकरणनव्यैरपि तदेवानुमृत्य- अत्र प्रधानकर्मणि लादयः 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् ' इति भाष्योक्तेः । प्रधानकर्मत्वं चात्र कर्तृ. प्रत्ययसमभिव्याहारे प्रधानभूतव्यापारविशेषणफलाश्रयत्वम् । एतद्विषये ईदृशप्राधान्यस्यैव ग्राह्यत्वात् । तच्चोक्तोदाहरणयोर्निर्वय॑मानौदनभस्मनोरेव । तनिष्ठविशेषणकव्यापारस्यैव तत्सूत्रस्थभाष्येण शाब्दप्राधान्यप्रतीतेः, तण्डुलरूपे कर्मणि लादय इति नव्यानां प्रमाद एव । दुहादिषु भाष्ये गणनाभावाच्च-इत्युक्तं तन्न । दुहादिपरिगणितधातुव्यतिरिक्तानां णिजन्तभिन्नानां करोत्यादिषु पाठस्वीकारात् । ननु कटं भीष्मं करोतीति कटोऽपि कर्म भीष्मादयोऽपीति भाष्यरीत्या प्रयोगस्तुल्य इति चेत् किं चातः । नहि सः अन्यतरकर्मणि लकारसाधकः अन्यथा भीष्मं कटः क्रियते इति प्रयोगापत्तेः । एवं चात्र प्रधानकर्मणि लादय इत्यविचारताभिधानं, प्रधानकर्मण्याख्येय इति भाष्यं

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122