Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 43
________________ ११ ग्रन्थः ] लघुविभक्त्यर्थनिर्णयः । २९ तदाश्रयविशेष्यत्वेन भिन्नार्थत्वात्कर्मकर्तृकृत्प्रत्ययादौ वापि वृत्तिनस्यात् । नच तत्र देवदत्तपदाध्याहारेण समानार्थत्वमिति वाच्यम् । लाघवात्पदद्वयघटितसमानविग्रहे चरितार्थो विधिः पदत्रयघटितविग्रहे न प्रवर्तते । अत एव भाष्ये इष्यते पुत्र इत्येवोक्तं, न तु देवदत्तेनेति । किं च पच्यतेकल्पं देवदत्तेन इत्यादौ कल्पबादीनां धात्वर्थविशेष्येऽन्वयस्य क्लृप्तत्वेन फलेऽन्वयापत्तेः । न चेष्टापत्तिरपसिद्धान्तादनुभवविरोधाच्च । किंच क्रियाप्रधानमाख्यातमिति निरुक्तविरोधः । न च फलेऽपि कचित्क्रियापदप्रयोगः । तस्य लाक्षणिकत्वेन तमादाय निरुक्तसमर्थनस्यानुचितत्वात् । किंच देवदत्तेन किं क्रियते पचतीत्युत्तरस्य संगतिश्च । इत्यभिप्रेत्यैव मनोरमा-भूषण-कौस्तुभादिसकलग्रन्थेषु ओदनं पचति, पच्यते ओदनः, इत्यादौ समानो बोध इत्युक्तम् । एवं च सर्वग्रन्थानुकूलभाष्यनिर्वाहे तद्विरुद्धं स्वातन्त्र्येण भाष्यसमर्थनमनुचितमिति दिक् । घटं जानातीत्यादी घटविषयकज्ञानानुकूलो व्यापार इति बोधः । ज्ञानजनकव्यापारश्च मनश्चक्षुःसंयोगादिः । अत एव मनो जानातीत्यादयः प्रयोगाः । तत्र ज्ञानरूपफला-प्रयत्वावटादेः कर्मत्वम् । न च फल. व्यापारयोः सामानाधिकरण्यादक र्मकतापत्तिः । कालिकादिसंबन्धेन सर्वेषां फलसामानाधिकरण्यसत्त्वादकर्मकत्वापत्त्या फलतावच्छेदकसंबन्धेन सामानाधिकरण्यवैयधिकरण्ययोः सकर्मकाकर्मकलक्षणेऽवश्यं निवेशनीयत्वात् । प्रकृते च फलतावच्छेदकः संबन्धो विषयता, व्यापारतावच्छेदकः समवायादिरिति वैयधिकरण्यं स्पष्टमेव । अत एव ज्ञानस्य घटात्मोभयवृत्तित्वेऽपि कर्मप्रत्ययेन विषयतासंबन्धेन ज्ञानाश्रयघटस्यैवाभिधानाद्धटो ज्ञायत इति प्रयोगः, न तु आत्मा ज्ञायत इति । तथा कर्तृप्रत्ययेन समवायसंबन्धेन ज्ञानाश्रयस्याभिधानादात्मा जानातीति प्रयोगः, न तु घटो जानातीति । यद्वा ज्ञानेच्छादिरेव व्यापारः । ज्ञातो घट इति प्रतीत्या तज्जन्या ज्ञाततादि फलं तदाश्रयत्वाद्धटादेः कर्मत्वम् । यत्तु केचिदाहुः-भावकार्यस्य समवायिकारणकत्वनियमात् भूतं भाविनं घटं जानामीति प्रयोगानापत्तिरित्यादि तत्तुच्छं, ध्वंसस्य प्रामाणिकत्वेन भावत्वस्य कार्यतावच्छेदककोटिप्रवेशवद्विज्ञानविषयताया अपि प्रामाणिकत्वेन समवेतत्वेनैव लघुना कार्यत्वस्यविशेषितत्वात् । अत एव ध्वंसवदेव ज्ञातताया अपि निमित्तकारणमात्रजन्यत्वमित्यन्यत्र विस्तरः ।

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122