Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 42
________________ . वादार्थसंग्रहः [३ भागः द्वितीयार्थनिर्णयः। कृत्तद्धितसमासनिपातादिभिरनभिहिते कर्मणि द्वितीयाविधायककर्मसंज्ञकेद्वितीयेत्यर्थक ‘कर्मणि द्वितीया' इत्याद्यनुशासनानुशासितद्वितीयायाः कर्मसंज्ञका अन्ये च वाच्याः । ते चानेके नत्वाश्रयत्वमात्रम् । अक्षान्दीव्यति उभयतः कृष्णमित्यादौ तदभावात् । एतेनाश्रयोऽवधिरुधिद्देश्य इत्यत्राश्रयोऽर्थ इति भूषणोक्तमपास्तम् । न चार्थान्तरे लक्षणा शक्तिप्राहकानुशासनतुल्यत्वे विनिगमकाभावेनैकत्र लक्षणान्यत्र शक्तिरिति वक्तुमशक्यत्वात् । नानार्थोच्छेदापत्तेः । अत एव कर्मत्वमपि न *क्रियाजन्यफलशालित्वमात्रं, किंतु का स्वनिष्ठव्यापारजन्यफलेनात्यन्तं संबडुमिष्यमाणं कर्मेत्याद्यर्थककर्तुरीप्सिततमं कर्मेत्यायनुशासितसंज्ञावत्त्वम् । एवं चौदनं पचतीत्यादावेकाश्रयक ओदननिष्ठविकृत्यनुकूलो व्यापारः । पच्यते ओदन इत्यत्राप्येवमेव । तार्किकास्तु-देवदत्ताश्रितव्यापारजन्यविकृत्याश्रय ओदन इति बोधमाहुः। ___ केचित्तु-देवदत्तनिष्ठव्यापारजन्यौदननिष्ठा विलृत्तिरिति बोधः । तत्र च सुप आत्मनः क्यजिति सूत्रस्थं भाष्यं मानम् । तथा हि-इष्यते पुत्र इत्यर्थे पुत्रीयतीति न प्रयोग: भिन्नार्थत्वात् । किंतु पुत्रमिच्छतीत्यर्थे एव । एतच्च कर्मलकारे एकायिका पुत्रकर्मिकेच्छेति बोधे फलविशेष्यक एव संगच्छते ।अन्यथोभयत्रापि एकाश्रयकपुत्रकर्मकेच्छानुकूलो व्यापार इति बोधस्य तुल्यत्वात् 'भिन्नार्थत्वात्' इति भाष्यमसंगतं स्यादित्याहुः। तन्न, भाष्यकैयटयोरन्याभिप्रायकत्वात्। तथाहि-वृत्तिवाक्ययोः समानार्थत्वभित्यस्य वृत्ति(विशेष्य?प्रकृतिक)पदेन समानार्थत्वमित्यर्थो वाच्यः । अन्यथा कुम्भकारादावपि समानार्थत्वं न स्यातत्र हि वाक्ये एकत्वप्रतीतिः न तु कुम्भकारेत्यणन्तवृत्तौ । विभक्त्यन्तेन तु समानार्थत्वसद्भावात्पूर्वोक्त एवार्थों न्याय्यः । तथा च पुत्रीयतीत्यादौ एककर्तृकपुत्रकर्मकेच्छानुकूलो व्यापार इति बोधः । इष्यते पुत्र इत्यादौ तु एकपुत्रकर्मकेच्छानुकूलो व्यापार इति बोधः। एवं च भिन्नार्थता स्पष्टैव । एतादृश्येव मिझार्थता भाष्यसंमता। भवदुक्तप्रकारता-विशेष्यताकृत एव भेदो वृत्त्यभावनियामकः भाष्यसंमतः स्यातर्हि पचतीति पाचक इत्यादी वाक्ये क्रियाविशेष्यत्वेन, वृत्तौ

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122