Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 44
________________ वादार्थसंग्रहः [३ भागः केचित्तु घटं जानातीत्यादौ कर्मत्यव्यवहारो भाक्त इत्याहुः । अन्ये तु द्वितीयायाः विषयतायां लक्षणेत्याहुः । तदुभयमप्यसत् व्यवहारस्य भाक्तत्वेऽपि द्वितीयानुत्पत्तिप्रसङ्गात् । न च कर्मणि द्वितीयेत्यादौ मुख्यभाक्तसाधारणकर्मत्वग्रहणात्तत्सिद्धिरिति वाच्यम् । अनुशासनानुशासितसंज्ञाव्यतिरिक्ते द्वितीयायाः असाधुत्वबोधनात्, संज्ञाया एव तदुत्पत्तौ प्रयोजकत्वात् । अन्यथा देवदत्ताय क्रुध्यति, पाचयत्योदनं देवदत्तेन विष्णुमित्र इत्यादौ द्वितीयोत्पत्तेढुंवारत्वात् । द्वितीयायाः लक्षणेत्यपि न, भवद्रीत्या घटं जानातीत्यादौ द्वितीयोत्पत्त्यभावेन तल्लक्षणायाः वक्तुमशक्यत्वात् । स्वायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयुञ्जमहे इति न्यायेनास्ति लक्षणायां बीजाकाङ्का । तच रूढिः प्रयोजनं वा । प्रकृतेऽनुशासनविरोधेव द्वयस्याप्यभावेन लक्षणायाः अभावाच, द्वितीयायाः लक्षणा अन्यासां नेत्यत्र विनिगमकाभावाच, विभक्तौ न लक्षणेति सिद्धान्तत्र्याघातश्च । न च विभक्त्यातिरिक्तार्थे सा नेति वाच्यम् । संकोचे मानाभावात् । यत्तु मीमांसकैः सक्त्वधिकरणे उक्तं-साध्यत्वं द्वितीयार्थः, सक्तून् जुहोतीत्यादौ सक्तूनां भूतभाव्यनुपयुक्तत्वेन सक्तूनां साध्यसक्तुकरणकहोमानुकूलव्यापारप्रतीतये करणत्वं लक्ष्यते, एवमग्निहोत्रं जुहुयादित्यत्र द्वितीयया साधनत्वं लक्ष्यते इति तन्न, सुपां सुलुगिति व्यत्ययानुशासनेनैव सिद्धे लक्षणाश्रयणस्यानुचितत्वात् ।। __यत्तु व्युत्पत्तिवादे-'चाक्षुषत्वाद्यवछिन्नवाचकदृश्यादिपदसमभिव्याहृतद्वितीयायाश्च लौकिकविषयिता, तादृशकर्माख्यातस्य लौकिकविषयत्वमर्थः । उपनीतसौरभादिविषयकसुरभिचन्दनमित्याकारकचाक्षुषादिदशायां सौरभं पश्यति सौरभो दृश्यते इत्याद्यप्रयोगात्' इत्युक्तम् । तच्चिन्त्यम् । 'पश्याथैश्वानालोचने' इति सूत्रे 'तस्मिन्दृष्टे परावरे' इत्यादौ च दृश्धातोरप्यलौकिकविषयकतार्थकत्वदर्शनेन सौरभं पश्यतीत्यादीनामपि साधुत्वस्वीकारे बाधकाभावः । अन्यथा सुरभि चन्दनं पश्यतीत्यादौ सुरभिपदोत्तरं कटोऽपि कर्म भीष्मादयोऽपीति मुख्यभाष्यमते द्वितीया न स्यात् । तव मतेऽपि लक्षणया तादृशप्रयोगस्य साधुत्वस्वीकाराच्च । पुष्पं जिघ्रतीत्यादौ पुष्पपदस्य पुष्पवृत्तिगन्धे लक्षणा । धात्वर्थस्तु गन्धोपलक्षितप्रत्यक्षानुकूल आत्ममनःसंयोगादिरूपो व्यापारः । तथा चैकदेवदत्ताश्रयकपुष्पवृत्तिगन्धविषयकप्रत्यक्षानुकूलो व्यापार

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122