Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 53
________________ ११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः । कर्तुर्ण्यन्तावस्थायां कर्मसंज्ञाविधायकात् 'गतिबुद्धिप्रत्यवसानार्थशब्दकार्माकर्मकाणाम्' इत्यनुशासनात् शत्रूनगमयत्स्वर्ग वेदार्थ स्वानवेदयत्।। आशयञ्चामृतं देवान्वेदमध्यापयद्विधिम् ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिगतिः ॥ . इत्यादावण्यन्तकर्तृभूतानां शत्रु-स्व-देव-विधि-पृथ्वीत्यादीनामनेन कर्मसंज्ञा । तथा च स्वर्गकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूलो व्यापारो हरिकर्तृक इत्यादिबोधः । अत्र कर्मत्वं द्वितीयार्थः । यत्तु. शब्दशक्तिव्युत्पत्तिवादानुरोधेन प्रकृत्यर्थनिरूपितं कर्तृत्वमेव द्वितीयार्थ इत्युक्तं वैयाकरणनव्यैः तन्न, प्रधानणिजर्थकर्मत्व एव द्वितीयाविधानेन गत्यादिसूत्रस्य विध्यर्थत्वे नियमार्थत्वे वा कर्मत्वस्यैव तदर्थत्वात् । अन्तर्भूतगत्यर्थकेऽपीदं प्रवर्तते । तेन तारयति कपीनित्यादि सिद्धम् । न चैवं नाययति वाहयति वा भारं भृत्येनेत्यादावन्तर्भूतगतित्वात्कर्मत्वापत्तिः । नीवह्योर्नेति निषेघात् । इमेवात्र गौणगत्यर्थग्रहणे लिङ्गम् । देवदत्तकर्तृका भृत्यकर्तृकग्रामभारकर्मकनयनवहनानुकूला क्रियेति बोधः । वाहयति बलीव न्यवानित्यादि तु 'नियन्तृकर्तृकस्य वहेरनिषेधः' इति स्मरणात् । देवदत्तकर्तृका बलीवाश्रितयवकर्मकवहनानुकूला क्रियेति बोधः । अस्मादेव भाष्योदाहरणादूढियोगमपहरतीति न्यायं बाधित्वा पशुप्रेरकसामान्यस्य ग्रहणम् । हिंसायामेव प्रत्यवसानार्थभक्षेः कर्मत्वं, भक्षयति बलीवान सम्यम् , एककर्तृका बलीवर्दनिष्ठा सस्यकर्मकभक्षणानुकूला क्रियेति बोधः । भक्षयत्यन्नं बटुनेत्यादौ तु बटुकतृकानकर्मकभक्षणानुकूला क्रिया देवदत्तकर्तृकेति बोधः । 'जल्पतिप्रभृतीनामुपसंख्यानम्' इत्यनुशासनाजल यति पुत्रं धर्म देवदत्त इत्यादौ कर्मसंज्ञा । अत्र पुत्रनिष्ठधर्मकर्मकजल्पनानुकूला क्रिया देवदत्तकर्तृकेति बोधः । अत्र ब्रूजसमानार्थकत्वाजल्पतियोगेऽकथितं चेति कर्मसंज्ञायां यज्ञदत्तः जल्पयति .मैं पुत्रं देवदत्तमिति प्रयोगोऽपीष्ट एव । देवदत्तनिष्ठपुत्रनिष्ठधर्मकर्मकजल्पनानुकूला क्रिया यज्ञदत्तकर्तृकेति बोधः । दृशेश्चेत्यनुशासनादर्शयति हरि भक्तानित्यत्र कर्मसंज्ञा, भक्तवृ. त्तिहरिकर्मकदर्शनानुकूला क्रिया देवदत्तकर्तृकेति बोधः । स्मारयति हरिं भक्तैरित्यत्र स्मरतेर्बुद्धयर्थत्वेऽपि न गतिबुद्धीत्यनेन कर्मत्वम् । तत्र

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122