Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 49
________________ ११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः । त्वाभावेनादोषात् । शक्तिभ्रमात्साधुशब्दस्मरणाद्वा बोधे इष्टापत्तिरेव त्वया वाच्या । शाब्दिकमते तु तादृशप्रयोगाभावादेवादोषात् । ___ यत्तु मासं व्याप्यौदनं पचतीत्यर्थे मासमोदनं पचतीति भवत्येवेति हेलाराजमतानुसारेण नव्यैरुक्तं तन्न । भाष्येऽकर्मकेति प्रत्याख्यानायाकर्मकधातूनां व्याप्त्यादिफलवाचकत्वस्वीकारेऽपि पचत्यादीनां तथा स्वीकारे मानाभावः । वार्तिककारमते व्याप्त्यादिफलस्य धात्वर्थत्वाभावेन तादृशप्रयोगाभावे निश्चिते, फलभेदे प्रत्याख्यानायोगे भाष्यस्यापि अकर्मकविषयतैवेति निश्चितत्वात् । मासं तण्डुलानोदनं पचतीति त्रिकर्मकप्रयोगे इष्टापत्तिश्चेदास्तां तावत् । प्रकृतमनुसरामः । प्राप्यं रूपं पश्यतीत्यादि । अत्र वेदान्तिनये आवरणभङ्गानुकूलो व्यापारश्चाक्षुषज्ञानरूपो दृशधातोरर्थः । तथा चावरणभङ्गाश्रयत्वाद्रूपादेः कर्मत्वम् । न चैवमीश्वरो रूपं पश्यतीति प्रयोगो न स्यात् । ईश्वरे आवरणभावेन तद्भङ्गानुकूलव्यापाराभावादिति चेन्न । विषयगुण्ठनपटवद्विषयगतमेवाज्ञानं तदावारकं न तु पुरुषाश्रितमित्यज्ञानभेदस्वीकारेणेश्वरेऽज्ञानाभावेऽपि विषये तत्सत्वात्प्रयोगोपपत्तिः । न च नयनपटलवत्पुरुषाश्रितमेवाज्ञानं, न तदतिरेकेण विषयगताज्ञाने प्रमाणमस्तीति मते दोष एवेति वाच्यम् । तत्राज्ञानारोपेण प्रयोगोपपत्तिः । दृश्यते हि पुराणादौ रामकृष्णादीनामीश्वराणामप्यज्ञानवर्णनम् । ईप्सिततमवक्रियया युक्तानीप्सितस्यापि कर्मसंज्ञाविधायकात् 'तथा युक्तं चानीप्सितम्' इतिसूत्राद्ग्रामं गच्छंस्तृणं स्पृशति, विर्ष भुङ्क्ते इत्यादौ कर्मसंज्ञा । उभयत्राप्यनुद्देश्यत्वरूपानीप्सितत्वसत्त्वात् । संज्ञान्तरैरनाख्यातं तु- . दुह्याच्पच्दण्ड्धिप्रच्छिचिब्रूशासुजिमथमुषाम् । कर्म युक्स्यादकथितं तथा स्यान्नीकृष्वहाम् । इत्यादि षोडशधातूनां कर्मणा युक्तस्यापादानादिविशेषैरविवक्षितस्य कर्मसंज्ञाविधायकाऽकथितं चेत्यनुशासनानुशासितसंज्ञावद्गां दोग्धि पय इत्यादौ गवादिरूपं, तदपि पयःकर्मकं गोसंबन्धि दोहनमिति बोधे । गोसंबन्धि यत्पयस्तत्कर्मकं दोहनमिति बोधे तु षष्ठयेव । दुहादिषु फलद्वयाभिधानेन गवादीनां कर्मत्वात् 'कर्तुरीप्सिततमं कर्म' इत्यनेन कर्मत्वप्रतिपादनमनुचितमेवेति प्रतिपादितं प्राक् । ननु गां दोग्धि पयः स्थाल्यामित्यादौ अधिकरणत्वाविवक्षायां स्थाल्या अप्यनेन कर्मत्वापत्ति

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122