Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 46
________________ ३२ वादार्थसंग्रहः [३ भागः नीहृकृष्वह विषयकमिति कैयटादिसकलग्रन्थकारैर्व्याख्यातत्वात् । तदुपमर्दैनान्यथाव्याख्याने दृढतरप्रमाणाभावात् । एवं च तण्डुलरूपे कर्मणि लादय इति नव्यानां प्रमाद एवेति वदतामेव प्रमादः । ननु भाष्यकारेण दुहादिषु अपाठात्कथं तण्डुलरूपे कर्मणि लादय इति चेत् भाष्यपाठस्योपलक्षणत्वात् । अत एव चकारेण संग्रह इति कैयटादयः । ननु तर्हि 'व्यर्थः पचिः' इति भाष्यं व्यर्थ, पाठेनैव द्विकमकतायाः सिद्धत्वादिति चेन्न । पचिरेव व्यर्थः नान्य इत्यभिप्रायपरत्वात् । तेन पयःकर्मकं गोसंबन्धि दोहनमिति बोधे एव गां दोग्धि पय इत्यस्य साधुत्वं न तु गोकर्मकपयःकर्मकमिति बोधेऽपीति विशेषसद्भावात् । ननु दुहादीनां व्यर्थत्वाभावे ' अपादानमुतराणि गां दोग्धि' इति विप्रतिषेधसूत्रस्थभाष्यम् ‘अवधित्वफलाश्रयत्वयोर्युगपद्विवक्षायां चेदम्' इति कैयटश्च विरुध्येतेति चेन्न । पयोरूपकर्मणोऽविवक्षायां गौरव कर्तुरीप्सिततमं कर्मेति कर्मत्वप्राप्तौ तत्संभवात् । अत एव भाष्ये गां दोग्बीत्येवोक्तं न तु पय इति । एतेन दुहेरपि अन्तःस्थितद्रवद्रव्यविभागानुकूलव्यापारानुकूलव्यापारार्थत्वे गां दोग्धि पय इत्यादौ गोपयसोरुभयोरप्यनेन कर्मत्वं, गोः कर्तृव्यापारजन्यफलाश्रयत्वात्, पयसस्तु प्रयोज्यफलाश्रयत्वात् । गोर्विभागाश्रयत्वेन तु न कर्मत्वं पयोनिष्ठविभागीयसंबन्धस्यैव फलतावच्छेदकत्वात् । तत्त्वेनानुद्देश्यत्वान्न(?)उक्तप्राधान्यं गोरिति तन लादयः । एवमन्येषामपि दुहादीनां जिदण्ड्यादीनां च द्विकर्मत्वं बोध्यम् । गर्गाः शतं दण्ड्यन्तामित्यत्रोक्तप्राधान्यं गर्गाणामिति तत्र लादयः । उद्देश्यत्वरूपमार्थ प्राधान्यं शतस्येति अनुद्देश्यत्वेनाप्रधानगर्गानुरोधान्न शतावृत्तिरिति न वृद्धिसूत्रस्थभाष्यविरोधोऽपीति नव्योक्तमपास्तम् । एवंविधस्वेच्छयानेकविधप्रयोज्यव्यापारस्वीकारे तृतीयचतुर्थप्रयोज्यव्यापारेण गां दोग्धि पयः यज्ञदत्तं विष्णुमित्रं देवदत्त इत्यादिप्रयोगापत्तेः । व्यापारद्वयार्थत्वमेवेत्यत्र नियामकाभावात् । न च गत्यादिसूत्रेण निस्तारः, तस्य ण्यन्तविषयत्वात् । अन्यथा त्वद्रीत्या गोरपि कर्मत्वं न स्यात् । किं च पचतीतिवदुहादीनामपि व्यर्थत्वेऽभिप्रेते व्यर्थः पचिरितिवद्वयर्थाना मिति वदेन तु द्विकर्मणामिति । तथाकथनेन दुहादीनां फलद्वयानुकूलव्यापारार्थत्वं न किंतु अकथितकर्मणा द्विकर्मकत्व

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122