Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 41
________________ ११ ग्रन्थः ] लघुविभक्त्यर्थनिर्णयः । तस्याधुनिकशब्दसंज्ञया प्रतीतस्य तात्पर्यानुपपत्तिग्रहं विना प्रत्यायकत्वाभावपरत्वात् । यद्वा वृत्तिं विना प्रकृत्या प्रतीतस्य प्रत्ययानुपयोग्यत्वाभावात् (?) प्रत्यायकत्वं शाब्दबोधजनकत्वं नास्तीति भाष्यार्थः । ऋचं वेत्तीत्यादौ सति तात्पर्येऽर्थबोधे इष्टापतिः । शक्त्या लक्षणया वेत्यन्यदेतत् । अन्यथा शब्दप्रतीतस्य स्फोटस्यार्थप्रत्यायकत्वं भाष्यायुक्तमसंगतं स्यात् । परंतु ऋगादिशब्दानामर्थपरत्वे तावद्भक्तिः स्वीकार्या द्विरेफादिवत् , अन्यथा प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वमिति नियमात्तत्र प्रत्ययार्थान्वयो न स्यात् । अत एवेको यणचीत्यत्र तद्वाच्यवाच्ये निरूढलक्षणेत्युक्तम् । तत्र निरूढं लक्षणं अणुदिदिति सूत्रं यस्याः बोधकमिति तदर्थः । एतेनाणुदित्सूत्रस्थ-'प्रतीतस्य प्रत्यायकत्वं नास्तीति'-भाष्याद्रहसि पुस्तकमीक्षमाणस्य स्वीयसूक्ष्मोच्चारणमस्त्येवेति वैयाकरणनव्योक्तमपास्तम् । भाष्यस्यान्यथैवोपपत्तेः । तस्मात्त्वंपदाध्याहारेणैव मध्यमः। न च-भो ब्राह्मणास्त्वं पचेत्यापत्तिः, न च संबोध्याख्यातकारकयोः समानवचनत्वनियमः भो ब्राह्मणाः चैत्रो गच्छतीत्यनापत्तेरिति-वाच्यम् । त्यदादीनां परामृश्यमानसमानवचनत्वनियमातू। ननु. (अनवसरः ?रक्षसः) शक्तिनिर्भिन्ने वत्से जहति चेतनाम् । हताश राम कस्यार्थे दग्धं जीवितमिच्छसीत्यादौ वक्तृसंबोध्ययोरेकत्वेन प्रकृतवाक्यार्थज्ञानसत्त्वात्सिद्धे वक्तुरिच्छाविरहात् रामस्य संबोध्यत्वानुपपत्तिरिति चेन्न । आत्मानमात्मना वेत्सीत्यादाविव लक्ष्मणविशिष्टराममूच्छितलक्ष्मणविशिष्टरामयोर्भेदाभ्युपगमेन संबोध्यत्वसंभवात् । एवं च प्रथमाया अप्यर्थसंभवे आश्रयोऽवधिरुद्देश्यः संबन्धः शक्तिरेव वा। इत्यादौ षण्णामेव कथने प्रथमायास्तदनुक्तौ भूषणकारस्य बीजाभावान्न्यूनतेति बोध्यम् । ननु 'तिङ्समानाधिकरणे प्रथमा' इतिन्यासे यथावस्थितन्यासे वा प्रथमान्तस्य क्रियान्वयाकाङ्काया नियतत्वात, आख्यातसंख्ययैवाख्येयगतसंख्याबोधोपपत्तौ प्रथमायाः संख्यावाचकत्वं किमर्थमिति चेत् न, चैत्रो मैत्रश्च गच्छत इत्यादावाख्यातोपात्तद्वित्वसंख्याविरुद्धैकत्वसंख्याबोधाय तदावश्यकत्वात् । इति प्रथमा।

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122