Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 39
________________ ११ ग्रन्थः ] लघुविभक्त्यर्थनिर्णयः । २५ दसंबन्धो नाम पदार्थान्तरमस्ति येनाभेदसंबन्धाभावेऽपि विशेषणविशेध्यभावो बोथ्य इति भवदुक्तं संगच्छेत । किंचैकत्वे यथाऽभेदस्य संबन्धत्वं नास्ति भेघटितत्वाद्धि संबन्धस्य, तथा विशेषणविशेष्यभावसंबन्धोऽपि नास्ति घटो घट इत्यादौ निरूपकभेदाभावे एकत्र प्रकारताविशेष्यतयोरभावात् । यदि तु विरुद्धार्थकविभक्तिरहितनामार्थयोर्विशेध्यैक्येऽपि प्रकारभेदे विशेषणविशेष्यभावं ब्रूषे तर्हि स एवास्माकमभेदसंबन्धः । एतेनाभेदस्य संबन्धत्वे मानाभावः संबन्धिभेदनियतत्वात्संबन्धस्येति न्यायविरुद्धम् । विरोधस्योभयत्र तुल्यत्वात्। व्यक्त्यैक्यनिरूपकभेदाभावेऽप्यवच्छेदकभेदे विरुद्धयोः प्रकारताविशेष्यतयोः स्वीकारेऽभेदस्य संबन्धत्वाभावे विनिगमकाभावेन युक्तिविरुद्धम् । यदि तु युक्तिन्याययोरभेदं ब्रूषे तद्यन्यतरन्मास्तु । __ यदपि नीलो घट इत्यादौ नीलपदोत्तरं षष्ठयापादनं तदपि शास्त्रविरुद्धम् । तथाहि-यदि अभेदसंबन्धे षष्ठयेव स्यात्तदा अनेकमन्यपदार्थ इत्यनेनानेकसमानाधिकरणप्रथमान्ताभावात्समासविधानं व्यर्थ स्यात् । न च कण्ठेकालादिरवकाशः, तस्य सप्तमीविशेषणे इति पूर्वत्वविधानेनापि साधयितुं शक्यत्वात् । अतस्तदेव ज्ञापयति नाभेदसंबन्धे षष्ठीति। किंचात्र पदसंस्कारपक्षे भेदसंबन्धाभावेन प्रातिपदिकार्थत्वात्प्रथमोत्पत्ती पश्चात्पदान्तरेणान्वये नामार्थयोरिति व्युत्पत्त्याऽभेदबोधः । तथा च तस्यामवस्थायां कारकप्रातिपदिकार्थव्यतिरिक्तरूपशेषत्वाभावात्संबन्धबोधाभावाच्च षष्ठयाः प्राप्तेरेवाभावात् । किंच संबन्धः यत्र प्रकारतया भासते तत्र षष्ठी, प्रकृते संसर्गतया भानान्न सा । किंच वीरः पुरुष इत्यादौ यदि षष्ठी तदा समानाधिकरणविशेषणस्य विशेष्यसमानविभक्तित्वमिति नियमभङ्गापत्तिः । किंच षष्ठया शब्दशक्तिस्वाभाव्याद्भेद एव प्रतीयते न त्वभेदः, तस्य तद्विरुद्धत्वात् । वीरः पुरुष इत्यादौ वीरपदोत्तरं षष्ठीसत्त्वे समानविभत्त्यभावान्नामार्थयोरभेदान्वय इति व्युत्पत्यभावेनाभेदबोध एव न स्यात् । एवं चाद्यन्तवत्सूत्रस्थम् ' राहोः शिरः' इति व्यपदेशिवदावेन समर्थनभाष्यमभेदस्य संबन्धत्वाभावसाधकं भवदुक्तं नास्माकं प्रतिकूलम् । अभेदस्य संबन्धत्वेऽपि तस्य षष्ठयर्थत्वाभावेनभेदप्रतीत्यर्थ व्यपदेशाश्रयणस्य (पार्थगदाधरप्रभृतयः स्यात् ? आवश्यकत्वात् ) । नतुषष्ठयर्थ एव संबन्ध इति नियमः, येन षष्ठयभावादभेदस्य सं. बन्धत्वं न स्यात् । सामीप्यस्य संबन्धत्वेऽपि भवद्भिस्तस्य षष्ठयर्थत्वावी.

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122