Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
११ ग्रन्थः ] लघुविभक्त्यर्थनिर्णयः । मकर्तु तत्र प्रधानादपि तृतीयापत्तिमाशङ्कयोपपदविभक्तेः कारकविभक्तिबलीयसीति प्रथमा भविष्यतीति प्रथमायाः कारकत्वं स्पष्टमेवोक्तमिति चेन्न । तत्र कारकशब्दस्यान्तरङ्गपरत्वेनैव हरदत्तादिभिर्व्याख्यातत्वात् । अन्यथा शिष्येण सहोपाध्यायस्य गौरित्यादौ कारकविभक्त्यभावेन उपपदविभक्तरुपपदार्थेऽन्वयनिमित्तकषष्ठीबाधकत्वेऽपि बहिर्भूतसंबन्धनिमित्तकषष्ठीबाधकत्वे मानाभाव इति कश्चित् । नापत्तेः (?)एवं च भाष्याक्षरस्वारस्यादुराग्रहेण यदि प्रथमायाः कारकत्वं स्वीक्रियते तर्हि तुल्यन्यायेन विसर्जनीयसूत्रे भाष्यकारेण द्वयोः परिभाषयोरित्यादिना पूर्वत्रासिद्धमित्यस्यापि स्पष्टं परिभाषात्वकथनेन तस्यापि परिभाषात्वं स्वीक्रियतां, यदि तत्र परिभाषात्वसाधर्म्यात्परिभाषापदवाच्यत्वम् , इहाप्यन्तरङ्गस्वसाधात् कारकत्वमिति तुल्यम् । यदपि जलस्येति दृष्टान्तकथनं 'कृञः प्रतियत्ने' इत्यनुशासनसंभवेऽपि प्रकृते तदभावात् । नहि तत्र गुणाधानं संभवति । तत्त्वे वा सुदप्रसङ्गात् । यदपि *क्रियान्वितकर्तृकमादिषदान्यतमत्वम्* इत्याहुः, तत्र क्रियान्वितविशेषणव्यावर्त्य त एव प्रष्टव्याः । केचित्तु * क्रियाजनकत्वयोग्यताबुद्धिविषयत्वमेव कारकत्वमाहुः । तत्र योग्यता षष्ठयादिव्यावृत्ता दुर्वचा। .
प्रातिपदिकार्थमात्रे लिङ्गमात्राद्याधिक्ये परिमाणमात्रे संख्यामात्रे च प्रथमाविधायकात 'प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा' इत्यनुशासनादुच्चैर्नीचैः कृष्णः श्री: ज्ञानमित्यादौ प्रातिपदिकाथमात्रे, तट तटी तटमित्यादौ लिङ्गमात्राद्याधिक्ये, द्रोणो व्रीहिरित्यादौ परिमाणमात्रे, एकः द्वौ बहव इत्यादौ वचनमात्रे प्रथमा । तत्र प्रातिपदिकार्थत्वं प्रातिपदिकेन नियमेन वृत्त्या बोध्यत्वम् । तचासत्त्वभूतेषु सत्तामात्रस्य । अन्यत्र तु सत्ताद्रव्यलिङ्गानाम् । अत एव 'जात्याकृतिव्यक्तयः पदार्थः' इति न्यायसूत्रम् । तटः तटी तटमित्यादौ तु प्रातिपदिकमात्रेण नियमेनाबोधनात्प्रत्ययान्तसमभिव्याहारेणैव बोधनान्न लिङ्गस्य प्रातिपदिकार्थत्वम् । तत्र कृष्णादिनियतलिङ्गेषु त्रिकं प्रातिपदिकार्थः । तटादौ तु जातिव्यक्तीति विकमिति विवेकः । अत एव नियतोपस्थितिकः प्रातिपादिकार्थ इति ग्रन्थकृतां व्यवहारः । एवं च कौस्तुभादिसकलग्रन्थानां सौष्ठवे तद्विरोधेन लिङ्गाद्याधिक्ये इत्यस्य कृष्णः श्रीः ज्ञानमित्युदाहरणमनुचितमिति दिक् ।
Loading... Page Navigation 1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122