Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
वादार्थसंग्रहः
[३ भागः
म्याद्यादेशत्वान्न दोष इति वाच्यम् । सप्तम्यादेशत्वे स्थानिवद्भावेन ङित्वात् बहुतः बहुत्रेत्यादौ गुणापत्तेः ।
तत्र सुब्विभक्तिः कारकाकारकभेदेन द्विधा । तत्र*कारकाधिकारपठितकर्तृकर्मादिसंज्ञामुपजीव्य विधीयमाना विभक्तिः कारकविभक्तिः द्वितीयादिः। प्रथमा शेषषष्ठी चाकारकविभक्तिः । उपपदविभक्तीनामत्रैवान्तर्भावः । यद्यपि शाब्दिकमते सर्वत्र क्रियापदाध्याहारः तिङ्समानाधिकरणे प्रथमेति न्यासे वा प्रथमायाः क्रियान्वयित्वरूपकारकत्वसंभवेऽपि, तथा षष्ठया अपि कचित्तथात्वसंभवेऽपि, न तत्कारकं व्याकरणव्यवहारप्रयोजकं प्रत्युतानिष्टावहम् । उपपदविभक्तित्वं तु पदविशेषसंबन्धेन विधीयमानविभक्तित्वम् । कारकत्वं तु संकेतविशेषसंबन्धेन कारकपदवत्त्वम् । भाष्ये कारके इत्यस्य संज्ञापरत्वेन व्यवस्थापनात् । तथा ब्राह्मणस्य पुत्रं पन्थानं पच्छतीत्यत्र ब्राह्मणस्य संज्ञा कुतो न भवतीत्याशङ्कयाकथितशब्दोऽसंकीर्तिते वर्तते । केनासंकीर्तितं अपादानादिविशेषकथाभिः । तथा च विप्रयोगस्यापि विशेषावगतिहेतुत्वादन्वर्थसंज्ञाविज्ञानाद्वा ब्राह्मणस्य न भवति संज्ञेत्युक्तम् ।
यद्यपि अथवेत्यनेन क्रियायामित्यर्थकत्वेनापि कारके इति सूत्रं व्याख्यातम् । एवं च सप्तम्यप्युपपन्ना, तथाप्यकथितशब्दस्याप्रधानपरत्वे. तद्व्याख्यानम् । न चाप्रधानत्वं सिद्धान्ते स्थितम् । तेन क्रियायामित्यर्थकत्वेन व्याख्यानं भाष्यासंमतमिति निश्चीयते । यत्त * क्रियान्वितबिभक्त्यान्वितत्वं कारकत्वम् । 'सा लक्ष्मीरुपकुरुते यया परेपाम् ' इत्यादी विपत्तौ चेत्यादिनामाध्याहारेणैव बोधात्षष्टयर्थस्य क्रियाकाङ्क्षाभावान्न षष्ठयान्वयिनः कारकत्वम् । जलस्योपस्कुरुते इतिवद्विशेषक्रियायोगे वा षष्ठीति शब्दशक्तिप्रकाशिकायामुक्तम् । तन्न । क्रियान्वितत्वं किं साक्षात परंपरासंबन्धेनापि । नाद्यः । सप्तम्या अकारकत्वापत्तेः । नान्त्यः । षष्ठया अपि कारकत्वापत्तेः । सप्तम्याः कर्तृकर्मद्वारा क्रियायामन्वयः षष्ठयाश्च नेति शपथैकगम्यत्वात् । न चेष्टापत्तिः, कारकाकारकविभागोच्छेदापत्तेः । षष्ठीप्रथमयोरपि कारकत्वात्तत्पूर्वयोरेरनेकाचोऽसंयोगपूर्वस्येत्यादिना यणाद्यापत्त्या सर्वोपप्लवापत्तेः। तत्र तत्र स्वरितत्वाश्रयणेन (?) दोषोद्धारे तु गौरवमेव । ननु ‘सहयुक्तेऽप्रधाने' इति सूत्रे भाष्ये अप्रधानग्रहणं शक्य१ 'घेर्डिति' इति शास्त्रेणेति शेषः ।
Loading... Page Navigation 1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122