Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 38
________________ २४ वादार्थसंग्रहः [३ भागः ननु मृडानीहिमानीत्यादौ पुंयोगमहत्त्वादेरधिकस्य भानात्प्रथमा न स्यादिति चेत् न, तत्र पुंयोगमहत्त्वादिकं प्रातिपदिकस्यार्थः उत प्रत्ययस्य । उभयथापि प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति परिभाषया तत्सिद्धेः । संबोधने चेत्यनेनाधिकार्थपरिच्छेदे तु सजातीयविभक्त्यर्थस्यैव परिच्छेदेन दोषाभावात् । ननु परिमाणग्रहणं व्यर्थ तस्य प्रातिपदिकार्थत्वादेव सिद्धेरिति चेन्न । एवं हि नामार्थयोरिति अभेदेन द्रोणपदार्थस्य व्रीहिपदार्थेन संबन्धः स्यात् । तद्व्यावृत्त्यर्थ परिमाणग्रहणात् । तथा च द्रोणपदार्थस्य प्रत्ययार्थपरिमाणे अभेदसंबन्धेनान्वयः । तस्य च ब्रीहिपदार्थ परिच्छेद्यपरिच्छेदकभावेनान्वयः । नन्वेवमभेदातिरिक्तसंबन्धेनान्वये समानविभक्तित्वनियमाभावाद्रोणो व्रीहिमानयेति प्रयोगापत्तिरिति चेत् न । अभेदसंबन्धेन बोधव्यावृत्त्यर्थेन परिमाणग्रहणेन यत्राभेदबोधे उत्थिताकाङ्क्षा तत्रैव प्रथमाविधानात् । नन्वेवमपि द्रोणं व्रीहिमानयेत्यत्रापि नामार्थयोरभेदसंबन्धेनान्वय इति अभेदसंबन्धेनान्वयः स्यात्तदर्थ लक्षणायाः आवश्यकत्वे तयैव प्रकृतेऽपि निर्वाहे व्यर्थ परिमाणग्रहणमिति चेन। नामार्थयोरित्यस्य किं नामार्थयोरेवाभेदान्वयः उत नामार्थयोरभेदसंबन्धेनान्वय एव । नाद्यः वैश्वदेव्यामिक्षा, स्तोकं पचतीत्यादीनामनन्वयापत्तेः । नान्त्यः । घटपटावित्यादावन्वयापत्तेः । एवं च संभवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वमिति भेदापेक्षयाऽभेदस्यान्तरङ्गखात परिभाषामूलोपन्यासः । तथा च द्रोणं व्रीहिमानयेत्यादौ लक्षणां विनैव परिच्छेद्यपरिच्छेदकभावेनान्वयोपपत्तिः । एवं च न सूत्रकारमतभेदोऽपि । अन्यथा त्वन्मतेऽभेदः सूत्रकारमते तु भेद इति स्फुटं भेदः । मदुक्तरीत्या तु न मतभेदः न वा लक्षणा, न च परिमाणग्रहणमिति महल्लाघवम् । यत्त द्रोणो व्रीहिरित्यादौ पदद्वयोपस्थाप्यव्यक्तयोरेकत्वेन संबन्धाभावेऽपि विशेषणविशेष्यभावो बोध्यः । यत्तु अभेदसंबन्धेनान्वय इति तत्र तस्य संबन्धत्वे मानाभावात् । संबन्धिभेदनियतत्वात् संबन्धस्य, तस्य संवन्धत्वे नीलो घट इत्यादौ षष्ठयापत्तिरिति कैश्चिदुक्तं तन्न्यायविरुद्धं, युक्तिविरुद्धं, शास्त्रविरुद्धं च । तथाहि सामानाधिकरण्ये सति स्वविशेष्यविरुद्धविभक्तिरहितनामार्थस्य प्रकारतासंबन्धेनान्वय एवाभेदसंबन्धः । सत्यन्तनिवेशात् द्रोणो ब्रीहिरित्यादौ स्वविशेष्यविरुद्धविभक्तिरहितत्वेऽपि नातिव्याप्तिः। न तु अमे

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122