Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 40
________________ २६ वादार्थसंग्रहः [३ भागः कारात् । तस्माद्विशेषयुक्त्यभावेन सर्वशास्त्रकारविरुद्धमभेदस्य संबन्धत्वाभाववचनमयुक्तमिति दिक् । संबोधने प्रथमाविधायकात्संबोधने चेत्यनुशासनाद्राम मां पाहीत्यादौ प्रथमा। तच्च वक्तुरिच्छाविषयप्रकृत्यर्थसमवेतं प्रकृतशब्दजन्यं ज्ञानम्। तथा च वक्तुरिच्छाविषयरामसमवेतज्ञानविषयो मत्कर्मकं रक्षणमिति बोधः । अन्ये गदाधरप्रभृतयस्तु * वक्तुरव्यवहितशब्दजन्यबोधाश्रयत्वेनेच्छा प्रथमार्थः । तादृशेच्छायाः विषयतासंबन्धेन प्रकृत्यर्थविशेषणतया भानम् । तथा वक्तुरव्यवहितशब्दजन्यबोधाश्रयत्वेनेच्छाविषयो राम इति बोध इत्याहुः । संबोध्यत्वं च समवायसंबन्धेन वक्तुरिच्छाविषयप्रकृत्यर्थसमवेतप्रकृतशब्दजन्यज्ञानाश्रयत्वं, तादृशेच्छाविषयत्वं वा । केचित्तु संबोधनम् * अभिमुखीकृत्याज्ञातार्थज्ञानानुकूलव्यापारानुकूलो व्यापारः * तद्व्यापारजन्यज्ञानानुकूलव्यापाराश्रयत्वं संबोध्यत्वम् । राम त्रायस्वेत्यादौ रामसंबोधनविषयस्त्राणमिति बोधः । अभिमुखीकरणं च स्ववचनार्थग्रहणे सादरत्वकरणं, तद्व्यञ्जकं च मुखपरावत्यादीत्याहुः । तन्न, हा देवि धीरा भवेत्यसनिकृष्टे तदसंभवात् । न च बुद्धथा संभवः, संबोधनसंबोध्याभिमुखीकरणादीनां सर्वेषां बुद्धिविषयत्वस्यानुचितत्वात् । ननु राम मां पाहीत्यादौ मध्यमपुरुषानुपपत्तिः । न च युष्मत्समानार्थसंबोधनस्य विद्यमानत्वात्तत्सिद्धिः । तत्समानार्थभवच्छब्दयोगेऽपि तदापत्तेः । एतेन त्वामस्मि वच्मि विदुषाम्' इत्यादावहमर्थकास्मीत्यव्यययोगे उत्तम इति प्रदीपोक्तमपास्तम् । तत्समर्थने आग्रहश्चेदित्थं समर्थ्यताम्-अहमर्थकमहंशब्दार्थकं, तथा चाहंशब्देनैवास्मदर्थप्रतिपादनादस्मत्सामानाधिकरण्यादुत्तम इति । अत एव अहमर्थकमित्येवोक्तं, न तु अहमर्थार्थकमिति । न च प्रतीतस्य प्रत्यायकत्वं नास्ति, अन्यथा ऋचं वेत्तीत्यादौ ऋगर्थे वेत्तीति प्रत्ययापत्तिः । लिप्या प्रतीतस्य शब्दस्य, तथा ध्वनिभिः प्रतीतस्य स्फोटस्य, प्रतीतानां च वाच्यलस्यव्यङ्गानां व्यङ्ग्यार्थप्रतिपादकत्वेन, तार्किकरीत्या असाधुभिः प्रतीतस्य साधुशब्दस्य, आदेशेन प्रतीतस्य स्थानिनोऽपि प्रत्यायकत्वदर्शनेन तादृशनियमे प्रमाणाभावात् । न चाणुदित्सूत्रस्थभाष्यविरोधः ।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122