Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 30
________________ वादार्थसंग्रहः [३ भागः इत्यनयोलक्षण्यानापत्तेश्च । न कस्मरणविषयाणां वर्णानां पौर्वापर्यसंभवः । अथ येन क्रमेणानुभूतास्तेनैव क्रमेण स्मृत्यारूढाः शाब्दबोधं जनयन्तीति चेन्न । क्रमेणानुभूतानामपि व्युत्क्रमेण श्लोकादौ स्मरणदर्शनात् । यत्तु वर्णानां प्रत्येकं स्फोटव्यजकत्वं मिलितानां वेति शाब्दिकमतेऽपि प्रागुक्तविकल्पादोष इति तन्न । घकारादिभिर्वणैरवयवव्यञ्जनद्वारा समु. दायाभिव्यक्तेः। यदपि गृहीतसंकेतानां वर्णानां रफोटव्यञ्जकत्वमगृहीतसंकेतानां वा । आये तैरेव सिद्धौ किं तेन, द्वितीये तु सर्वस्यापि तद्वोधापत्तिरिति तन्न । अगृहीतसंकेतैरपि व्यञ्जनात् । अत एवागृहीतार्थकेष्वेकं पदमिति व्यवहारः । तस्मात्समूहालम्बनव्यावृत्त एक पदमित्यनुभवसाक्षिक आनुपूर्वीविशेषविशिष्टः कश्चिदवश्यं शब्दपदार्थः स्वीकार्यः । स एव शाब्दिकानां स्फोट: । अत एव घटादीनामतिरिक्तत्वं नतु त्रसरेणुपुञ्जात्मकत्वं विशकलितेषु तेष्वपि घट इति बुद्धयापत्तेरिति वैशेषिकाः। यत्तु एकं पदमित्यनुभवोऽथैकत्वनिबन्धन इति तन्न । अर्थबोधाभावेऽपि पदत्वग्रहात् । तदेव पदमिति बुद्धेस्तज्जातीयविषयत्वे तज्जातीय पदमिति व्यवहारापत्तेश्च । किंच हरेऽव विष्णोऽवेत्यादावेकादेशे कृते पदविभागासंभवेन समुदायशक्तिरावश्यकी। किं चोच्चारणभेदाद्भिन्नेषु व्यक्तिवाद इव शक्तयनापत्तेः। आनन्त्यादिदोषात् । अपि चानुपूर्वीविशिष्टस्यैव पदत्वेन समूहालम्बने पदत्वानुभवो दुर्घटः। यत्तु पूर्ववर्णध्वंसविशिष्टचरमवर्णानुभव एवानुपूर्वीति तन्न । यत्र धकारमुच्चार्य प्रहरानन्तरं टकार उच्चारितस्तत्रापि पूर्ववर्णध्वंससत्वेनातिव्याप्तः। किंच श्लोकादौ पदविभागे क्रियमाणे शाब्दबोधस्यानुभवसिद्धस्यापलापापत्तिः । वर्णानां पौर्वापर्यस्य पदविभागात्प्रागिवोत्तरत्रापि समत्वात् । अपि च घटमानय देवदत्तेत्यादौ यदि प्रथमक्षणे घटपदस्मरणं द्वितीयादिक्षणे आनयनादिस्मरणं तदा तृतीयादिक्षणे पूर्वस्मरणस्य नाशाच्छाब्दबोधानुपपत्तिस्तदवस्थैव । अतो युगपत्तेषां स्मरणमित्यभ्युपेयम् । तदुक्तम् वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत्पतन्ति । तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति ॥ इति । एवं च गिरिर्भुक्तमग्निमान्देवदत्तेनेत्यादावपि समूहालम्बने पदार्थानां विशेषविषयत्वाविशेषात् अत्राऽऽसत्त्यभावाच्छाब्दबोधाभाव इति तार्किकप्रवादविरोध इत्यलम् ।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122