Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 28
________________ “१४ वादार्थसंग्रहः [३ भागः तया नीलपदोत्तरं द्वितीया न प्राप्नोतीत्याशङ्कय नीलं करोति घटं करोतीति पृथगेवान्वयः। पश्चान्मानसो नीलघटयोरभेदावगम इति समाहितम् । तिङ्कृत्तद्धितेति परिगणनं तु नाश्रयणीयमित्याशयः । यदा याचितमण्डनन्यायेनैकस्मिन्नेव कर्मणि घटपदादिव नीलपदादपि द्वितीयेति पक्षस्तदा साधुत्वार्थकत्वप्रवादः। अत एवोक्तं भाष्ये अथवा कट एव कर्म तत्सामानाधिकरण्याद्भीष्मादिभ्योऽपि द्वितीयेति विशेष्यसमानविभक्तिकत्वं विशेषणस्य न्याय्यमिति भावः । तद्यथा ईश्वरसुहृदः स्वयं निर्धना अपि तद्धनेन धनफलभाजस्तद्वत् । भाष्ये तु पक्षान्तरमप्युक्तम् । अथवा कटोऽपि कर्म भीष्मादयोऽपीति, कटपदोत्तरद्वितीयया कटगतकर्मत्वस्योक्तावपि भीष्मगतकर्मत्वबोधनाय भीष्मपदोत्तरमपि द्वितीयावश्यकीत्यस्मिन्पक्षे भीष्मरूपकर्माभिन्नं कटरूपं कर्मेत्यर्थः । एवं च विशेषणविभक्तेरभेदे वृत्तिकल्पनं निर्मूलम् ।। पदार्थभेदे द्वन्द्वः पदार्थतावच्छेदकभेदे कर्मधारय इति तार्किकानां प्रवादः । अत्र पदार्थत्वं पदजन्यप्रतीतिविषयत्वम्, तच्च पदार्थतावच्छेदकसाधारणं, तत्रापि प्रकारतारूपविषयतासत्त्वात् । एवं च नीलघटयोरभेद इत्यादौ पदार्थतावच्छेदकयो लत्वघटत्वयोर्भेदादेव द्वन्द्वः । इत्थमेव प्रमाणप्रमेयप्रयोजनेत्यादिगौतमसूत्रेऽपि प्रमाणप्रमेययोर्भेदाभावेऽपि पदार्थतावच्छेदकयोः प्रमाणत्वप्रमेयत्वयो दादेव द्वन्द्वः । अथैवं द्वन्द्वापवाद एकशेष इति प्रवादविरोधः घटा इत्यादौ पदार्थतावच्छेदकस्यापि भेदाभावेन द्वन्द्वाप्राप्त्याऽपवादत्वासंभवात् । यतूक्तं जगदीशेन 'घटा इत्यादौ व्यक्तिभेदसत्त्वात् द्वन्द्वप्राप्त्युपपादने घटकलशावित्यत्र पदबोध्यभेदसत्त्वात् द्वन्द्वापत्तेः नहि तत्रैकशेषः संभवति विरूपत्वादिति तदशद्धं विरूपाणामपि समानार्थानामिति वार्तिकेन तत्राप्येकशेषस्य दुर्वारत्वात् ।। ___ यत्तु तार्किकैकदेशिनः-एकशेषः कृतद्वन्द्वानामेव, अन्यथा श्रूयमाणपदोत्तरमेकवचनप्रसंगादिति, तन्न । कृतद्वन्द्वानामेकशेषे करौ करा इत्यत्र द्वन्द्व इव प्राणितूर्यसेनाङ्गानामित्येकवद्भावापत्तेरिति चेदत्राहु: ' पदार्थशब्दः पदजन्यप्रतीतिविषयपरः घटे विशेष्यता घटत्वे च प्रकारतारूपा सेति घटा इत्यादौ नीलघटयोरभेद इत्यादौ च पदार्थभेदसत्त्वात् । यत्तु पदार्थतावच्छेदकभेद एव द्वन्द्व एकशेषोऽपि हरय इत्यादावेव । अपवादत्वप्रवादोऽपि तत्रैव द्वन्द्वप्राप्तेरिति तन्न । घटोऽयं घटोऽयमिति प्रयोगवत् व्यक्तिमात्रविवक्षायां घटघटावित्यस्यापि प्राप्त्या तत्राप्येकशेषस्याव

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122