Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१२
वादार्थसंग्रहः
[३ भाग नापत्तिरिति चेन्न, निपातानामेव द्योतकत्वेनाव्ययान्तरस्य द्योतकत्वाभावात् । ननु लौकिकविषयत्वं निपातार्थः । करोतेश्च तदनुकूलो व्यापारोऽर्थः । तथाच ग्रामं गच्छतीत्यत्र द्वितीयार्थफलाश्रयत्वेन, साक्षात्तियते हरिरित्यत्रापि करोत्यर्थजन्यतिपातार्थफलाश्रयत्वादेव कर्मत्वमस्त्विति वाच्यम् । केवलव्यापारवाचकत्वस्य पूर्वत्रैव निराकृतत्वात् ।
किंच निपातानां वाचकत्वे शोभनः समुच्चयो द्रष्टव्य इतिवच्छोभनश्च द्रष्टव्य इत्यपि प्रयोगापत्तिः । घटस्य समुच्चय इति वद्घटस्य च इति प्रयोगापत्तिश्च । ननु शोभनः समुच्चय इत्यादौ नामार्थत्वादभेद एव शोभनश्चेत्यादौ तु निपातार्थत्वाच्छोभनवृत्तिः समुच्चय इति भेदान्वय एव निपातातिरिक्तनामार्थयोरेवाभेदस्वीकारादिति चेन्न । निपातातिरिक्तत्वविशेषणप्रवेशस्यैव गुरुत्वात् । अपि च
शरैरुपैरिवोदीच्यानुद्धरिष्यंत्रसानिव । इत्यादावनन्वयः । अत्रोस्रसदृशैः शरै रससदृशानुदीच्यानुद्धरिष्यनित्यर्थः । स चोस्रादिपदानां तत्सदृशपरत्वे इवशब्दस्य द्योतकत्वे च संगच्छते । तथाहि-उरित करणे तृतीया । नचोस्रोऽत्र करणमिवशब्दार्थसदृशस्य करणत्वेन तु तत्र क्रियाया आवृत्योऽस्रकरणकसकर्मकोद्धरणसदृशशरकरणकोदीच्यकर्मकोद्धरणमित्यर्थान्न दोष इति वाच्यम् । वारद्वयमिवशब्दप्रयोगासंगतेः । उपसर्गत्वापेक्षया निपातत्वस्याधिकवृत्तितया तवच्छेदेन द्योतकतायाः कल्पयितुमुचितत्वाच्च । सामान्ये प्रमाणानां पक्षपातात् । निपातत्वं चाखण्डोपाधिरूपं जातिरूपं वोभयथापि प्रादिचादिसाधारणमेव । नञ्तत्पुरुषे उतरपदार्थप्राधान्यमिति प्रवादस्य पूर्वपदद्योत्यं प्रति प्राधान्यमित्याशयः । द्योत्यार्थेन चार्थवत्त्वात्प्रातिपदिकत्वमपि ।
___ इतिचाद्यर्थनिरूपणम् । जातिरेव शब्दार्थ इति मीमांसकाः । तथाहि-व्यक्तीनामानन्त्यादेकव्यक्तौ शक्तिग्रहे व्यक्त्यन्तरबोधाच्च न व्यक्तौ शक्तिसंभवः । जातिविशिष्टायां व्यक्तौ शक्तिरित्युक्तौ तु 'नागृहीतविशेषणा बुद्धिर्विशेष्य. मुपसंक्रामति' इति न्यायादावश्यकत्वाञ्च जातावेव शक्तिरस्तु व्यक्तिबोधस्त्वाक्षेपात् । नचाक्षेपितव्यक्तेः पदार्थत्वाभावाद्गामानयेत्यादौ कथं व्यक्तौ कर्मत्वाद्यन्वयः प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वादिति
Loading... Page Navigation 1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122