Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 24
________________ वादार्थसंग्रहः [३ भागः गोपदस्य चित्रगवीस्वामिनि लक्षणा, चित्रपदं तात्पर्यग्राहकमिति सिद्धान्तः सोऽप्यसंगतः; समानाधिकरणलक्षणपुंवद्भावानापत्तेः, अनेकपदस्यैकस्मिनर्थे वर्तमानत्वाभावात् । देवदत्तं पण्डितं जानीहीत्यादाविव देवदत्तपण्डितं जानीहीत्यादावपि पाण्डित्यस्य विधेयत्वापत्तेश्च । अत एव पटुरहं त्रवीमीत्यत्रास्मदो द्वयोश्चेत्यनेन प्राप्तस्य बहुवचनस्य सविशेषणानामित्यनेन प्रतिषेधो भवति । वयं ब्राह्मणा इत्यत्र तु ब्राह्मणत्वस्य विधेयत्वेन विशेषणत्वाभावान्न निषेधः । किंचावयवानामर्थवत्त्वे ऋद्धस्य राज्ञः पुरुष इत्यादाविव ऋद्धस्य राजपुरुष इत्यपि विशेषणयोगापत्तिः । नच यत्र समासघटकीभूतपदबहिर्भूतपदसापेक्षत्वमभेदेन तत्र समासोऽसाधुः। अत एव 'शरैः शातितपत्रोऽयम्' इत्यादौ न दोष इति वाच्यं, एतद्वचनारम्भस्यैव गुरुत्वात् । मम तु सापेक्षमसमर्थवदिति न वाचनिकं किंतु पदाथैकदेशत्वान्न ऋद्धादीनामन्वय इत्यभिप्रायकम् । देवदत्तस्य गुरुकुलभित्यादौ तु लोके बोधोदयेन व्युत्पत्तिवैचित्र्यादेकदेशेऽप्यन्वयः स्वीक्रियते । एतदभिप्रायेणैवोच्यते भवति वै नित्यसापेक्षस्य वृत्तिरित्यसमर्थमित्यस्य हि लोके बोधाजनक इत्यर्थः । ___ अथ तार्किकमतेऽपि राजपदस्य राजसंबन्धिनि लक्षणाभ्युपगमेनैकदेशत्वादेव न ऋद्धादीनामन्वय इति चेन्न । कण्टेकालो दास्या:पुत्र इत्यादौ लक्षणायां मानाभावेन तत्र विशेषणान्वयापत्तेः । किंच यस्य राजपुरुष इत्यत्र लुप्तषष्ठयनुसंधानाच्छाब्दबोधस्तस्य पुरुपस्य तादृशप्रयोगापत्ते१रत्वात् । नहि तत्र षष्ठी नानुसंधेयेति राजशासनमस्ति । अपि च वृत्तरर्थवत्त्वाभावे पुरुषो व्याघ्र इव शूर इत्यादाविव पुरुपव्याघ्रः शूर इत्यस्य तुल्यार्थत्वापत्तौ उपमितं व्याघ्रादिभिरित्यत्र सामान्याप्रयोगे इति निषेधात्समासानापत्तेः । सिद्धान्ते तूपात्तधर्मातिरिक्तधर्मेण सादृश्यग्रहणे समासो भवत्येव अत एव भाष्याधिः कातिगम्भीरः' इत्यत्रापि ततदुरवगाहत्वादिना सादृश्यम् । अत एव वषट्कतः प्रथमभक्ष इत्यत्र भक्षणमुदिश्य न प्राथम्यविधिरिति मीमांसकसिद्धान्तः । अत एव चेदशविशेषयोः समासे सति अविमृष्टविधेयतादोषापत्तिरित्यालङ्कारिकाः एवं राज्ञः पुरुषः शूरश्च भवतीति वाक्ये राजसंवन्धशूरत्वोभयम्य पुरुषे बोधवदाजपुरुषः शूरश्चेत्यपि प्रयोगापत्तिः । किंच राजपुरुष इत्यादी षष्ठयादिलोपे पाणिपादमित्यादौ चादिलोपे च गौरवात् । तस्मात्पङ्कजादि

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122