Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१० ग्रन्थः ]
वादसुधाकरः ।
१३
वाच्यम्, लक्षणया तस्या अपि प्रकृत्यर्थत्वात् । लक्षणैव ह्यत्राक्षेपशब्दार्थः । ( नचानुपपत्तिप्रतिसंधानं विना कथं लक्षणेति वाच्यं, निरूढलक्षणायांतदनपेक्षणात् । ? )
ननु 'स्वार्थादन्येन रूपेण ज्ञाते भवति लक्षणा' इति नियमात्कथं घटत्वेनोपस्थिते लक्षणेति चेन्न, एतन्नियमे मानाभावात् । अत एव नीलं घटमानयेत्यादौ नीलरूपवति लक्षणेत्याहुः ।
नैयायिकास्तु जात्याकृतिव्यक्तयः पदार्था इत्याहु: । अत्र यद्यपि एकं द्विकं त्रिकं चाथेत्यादिना बहवः पक्षाः शास्त्रसंमतास्तथापि केवलव्यक्तिरेव शब्दार्थ इति पक्षो ज्यायान्, शक्तिग्राहकशिरोमणेस्तत्रैव पक्षपातात् । ननु व्यक्तीनामेव शब्दार्थत्वे आनन्त्याद्व्यभिचाराश्चेति प्रागु. तो दोष इति चेन्न । जातेरुपलक्षणत्वस्वीकारात् । तदुक्तं भट्टपादेनआनन्त्येऽपि हि भावानामेकं कृत्वोपलक्षणम् ।
शब्दः सुकरसंबन्धो नच व्यभिचरिष्यति । इति
अत्र वदन्ति — व्यक्तीनामानन्त्याद्गोत्वादिविशिष्टव्यक्तौ शक्तिकल्पने गोत्वादौ शक्यतावच्छेदकत्वकल्पनस्यावश्यकतया व्यक्तिशक्तिकल्पने प्रयोजनविरहः । यथाहि गोत्वांशे शक्यतावच्छेदकता निरवच्छिन्ना तथाऽस्मन्मते शक्तिरपि निरवच्छिन्नेति न गोत्वत्वप्रवेशाद्गौरवम् । अथ जातिशक्तिवादिमतेऽपि गौर्नष्टा इत्यादौ व्यक्तिभानस्यावश्यकतया शक्तिर्दुवीरैवेति चेन्न, व्यक्तिशक्तिज्ञानत्वेन शाब्दबोधे हेतुता न स्वीक्रियत इत्येतावतैव व्यक्तेरवाच्यत्वव्यवहारात् । अत एव व्यक्तयंशे कुब्जाशक्तिरिति व्यवहारः । अत एव संसर्गाणां शाब्दबोधविषयत्वेऽपि न वाच्यता । एवं च गौर्गोपदेशक्य इति व्यवहारोऽपि न विरुध्यते ।
अत्र केचित् - घटपदाटत्वेन रूपेणोपस्थितिर्न द्रव्यत्वादिरूपेणेति वैपम्यानुपपत्तिः । घंटे घटत्वस्येव द्रव्यत्वादेरपि वैशिष्टये विशेषाभावात् । तस्माद्वत्वंविशिष्ट एव शक्तिरुपेया, घटत्वविशिष्ट इत्यस्य च घटघटत्वयोरित्येत्रार्थः । घटत्वस्योपलक्षणत्वे उक्तदोषानुद्धारात् । अत्रेदं तत्त्वम् — अलक्ष्यस्य लक्ष्यतावच्छेदकत्ववकारणस्य च कारणतावच्छेदकत्ववदशक्यस्य शक्यतावच्छेदकत्वे बाधकाभावात्वादिकमुपलक्षणम् । अत एव दीfaतौ शक्यतावच्छेदके शक्तिर्दुषितैवेत्यलम् ।
विशेषणविभक्तेरभेदार्थत्वमित्येके । साधुत्वार्थकत्वमित्यन्ये । अत्रेदं बोध्यं - नीलं घटं करोतीत्यादौ घटपदोत्तरद्वितीयया कर्मत्वस्याभिहित
Loading... Page Navigation 1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122