Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१० ग्रन्थः ] वादसुधाकरः । युगपत्प्रकाशनम् । सर्वशक्तेरित्यस्य व्याख्यानमनेकधर्मण इति । गोशब्दस्य गोत्वजातौ प्रसिद्धया मुख्यत्वं वाहीके त्वप्रसिद्धया गौणत्वमित्यर्थः ।
शक्तिर्नामशब्दार्थयोस्तादात्म्यमेव। अत एव पुरोवर्तिपदाथै दृष्ट्वा वाचकजिज्ञासया कोऽयमिति प्रश्ने देवदत्तोऽयमित्युत्तरम् । अत एवोक्तं पातजलभाष्ये 'संकेतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मको योऽयं शब्दः सोऽर्थो योऽर्थः स शब्दः' इति इतरेतराध्यासः परस्परात्मकतारोपः अन्यस्मिन्नन्यधर्मावभासोऽध्यासः। स्मृत्यात्मक इत्यनेन ज्ञात एव संकेतः शक्तिबोधक इति सूचितम्। कः शब्दः कोऽर्थः इति प्रश्ने घट इत्ययं शब्दो घट इत्ययमर्थ इति समानाधिकरणोत्तरदर्शनाच्छब्दार्थयोरध्याससिद्धिः । अत एव 'रामेति यक्षरं नाम मानभङ्गं पिनाकिन: ' इत्यादौ शब्दार्थयोरप्यभेदेन व्यवहारः । ओमित्येकाक्षरं ब्रह्मेत्यादिश्रुत्यादावपि अभेदेनैव निर्देशः । अभेदस्याध्यस्तत्वाञ्च भेदव्यवहारोऽपि अस्यार्थस्यायं वाचक इति । अत एवो हरिणा-' तादात्म्यमुपन्यस्येव शब्दार्थस्य प्रकाशकाः' इति । अत्रेवशब्देन तादात्म्यस्यातात्विकत्वं सूचितम् ।
यत्तु शब्दशब्दार्थयोरभेदे अग्न्यादिशब्दैर्मुखदाहापत्तिरिति तन्न । उक्तयुत्त्या तादात्म्यस्यारोपितत्वेन दाहकत्वादिशक्तेरभावात् । लक्षणाया वृत्त्यन्तरत्वमयुक्तं बोधकतारूपाया भगवदिच्छाया वा शक्तेर्लाक्षणिकेप्यविशिष्टत्वात् । शाब्दबोधे वृत्त्या पदजन्यपदार्थोपस्थितिः कारणं तत्र वृत्तित्वस्य शक्तिलक्षणायच्छेदकत्वे गौरवाच । . ननु गङ्गापदस्य गङ्गातीरे शक्तिस्वीकारे स्वारसिकप्रयोगापत्तिरिति
चेन्न, तत्र गङ्गापदस्याप्रसिद्धत्वात् । अत एव हरिपदस्य क्लीबादिवाचकत्वाविशेषेऽपि न झटिति तेषां प्रत्ययः । अत एव हनधातोर्गतौ शक्तितौल्येऽपि न स्वारसिकः प्रयोग इति दिक् । __ घटः कर्मत्वमानयनं कृतिरित्यादौ पदार्थोपस्थित्यादिसत्त्वादन्वयबोधापत्तिवारणायाकाङ्क्षा हेतुः । यस्य पदस्य यत्पदव्यतिरेकप्रयुक्तान्वयाननुभावकत्वं तत्पदे तत्पदवत्त्वमाकाङ्क्षा । ननु नीलपदं विनापि घटमानयेत्यादावन्वयदर्शनान्नीलघटयोराकाङ्कासिद्धये भेदवोधाभावे समानविभक्तिकपदान्तराभाव एव प्रयोजको वाच्यः । तथाच घटः कर्मत्वमिति निराकाङ्केऽतिव्याप्तिरिति चेन्न, तत्राकाङ्खासत्वेऽपि योग्यताविरहेण शाब्दबोधाभावात् । एकपदार्थेऽपरपदाऽर्थसंबन्धो योग्यता । वह्निना सिञ्चतीत्यादावयोग्यत्वान्न दोषः ।
Loading... Page Navigation 1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122