Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 21
________________ १० ग्रन्थः] वादसुधाकरः। नुकूलकृतिमांश्चैत्रो गमनानुकूलकृतिमानिति बोधसंभवात् । शाब्दिकमते तु क्रिययोः परस्परमनन्वयान्न तथा प्रयोगः । कथं तर्हि पचति भवतीत्यत्र पाकक्रिया भवतिक्रियायाः कत्र्यों भवन्तीति भाष्यम् । अत एव तिङन्तोपस्थापिता क्रिया क्रियान्तरैः समवायंगच्छतीति उक्तं भाष्य एवेति चेत्सत्यम् । कर्तृकर्मभावेन क्रिययोः परस्परमन्वयो भवति नतु करणत्वेनेति कैयटेन व्याख्यातम् । किंच धात्वर्थव्यापारप्रकारकशाब्दबोधं प्रत्याख्यातजन्योपस्थितेस्तार्किकमते हेतुतया पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः।। विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्निशं दिवः ।। इत्यादौ पुर्यवस्कन्दनरूपाऽस्वास्थ्यक्रियेत्याद्याकारकान्वयाभावे धातुसंबन्धे विहितस्य लोडादेरनापत्तिः । किंच धातुसंबन्धे प्रत्यया इत्यस्य धात्वर्थानां परस्परसंबन्धे सति यस्मिन्काले प्रत्यया उक्तास्ततोऽन्यत्रापि भवन्तीत्यर्थः । वर्तमानसामीप्य इत्यादिना कालबाधस्यैव प्रक्रान्तत्वात्काल एव बाध्यते । तत्रापि कृदुपस्थाप्यस्य गौणत्वानापत्तौ उक्तकालबाधरूपव्यवस्थाया अनुपपत्तिर्बोध्या । अपि च सुवृष्टिश्चेदभविप्यत्सुभिक्षमभविष्यदित्यादौ क्रिययोः कार्यकारणभावेनान्वयाभावे हेतुहेतुमतोलडित्यादेरप्रवृत्त्यापत्तरिति दिक् । धातूनां तु फलव्यापारोभयवाचकत्वं नतु व्यापारमात्रवाचकत्वम् । नच कर्मणि द्वितीयेत्यत्र कर्मपदस्य कर्मत्वपरतया कर्मत्वं च फलमेवेति फलं द्वितीयार्थ एवेति नैयायिकनव्योक्तं शङ्कयम्, सकर्मकाकर्मकत्वविभागानापत्तेः फलव्यापारोभयवाचकत्वं सकर्मकत्वं केवलव्यापारवाचकत्वमकर्मकत्वमिति तैः स्वीकारात् । नच यद्धातुसमभिव्याहारे फलं व्यापारश्च प्रतीयते स धातुः सकर्मक इति तल्लक्षणमस्त्विति वाच्यं, कर्मप्रयोगे सकर्मकत्वज्ञानं सकर्मकत्वज्ञाने च कर्मप्रयोग इत्यन्योन्याश्रयापत्तेः । अथायमाशयः-संयोगरूपफलबोधे गमधातुसमभिव्याहारः कारणमावश्यकश्चायं कार्यकारणभावः अन्यथा गच्छतीत्यत्र विभागानुकूलव्यापार एव कुतो न प्रतीयत इत्यत्र नियामकाभावात् । गमधातुसमभिव्याहारस्य कारणत्वापेक्षया गमधातोः कारणत्वे एव लाघवात् । अत एव पाको गमनमित्यत्र न पर्यायता । नच तत्र ततत्फलावच्छिन्ने व्यापारे लक्षणा, तात्पर्यग्राहकं विना लक्षणाया अप्यसंभवात् , स्वरसत एव तद्बोधोदयेन लक्षणाया अयुक्तत्वाच्च । बोधकत्वं स्वीकृत्य वाचकत्वं

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122